पूर्वम्: ५।३।१९
अनन्तरम्: ५।३।२१
 
सूत्रम्
तयोर्दार्हिलौ च च्छन्दसि॥ ५।३।२०
काशिका-वृत्तिः
तयोर् दार्हिलौ च छन्दसि ५।३।२०

तयोः इति प्रातिपदिकनिर्देशः। तयोरिदमः तदश्च यथासङ्ख्यं दार्हिलौ प्रत्ययौ भवतश् छन्दसि विषये। चकाराद् यथाप्राप्तं च। इदावत्सरीयः। इदं तर्हि। इदानीम्। तदानीम्।
न्यासः
तयोर्दार्हिलौ च च्छन्दसि। , ५।३।२०

"इदा"। "इदम इश्()" ५।३।३। तथा वर्णव्यत्ययेन दकारस्य धकारः। "इदानीं, तदानीं इति। दानीम्प्रत्ययस्योदाहरणम्()॥