पूर्वम्: ५।३।१८
अनन्तरम्: ५।३।२०
 
सूत्रम्
तदो दा च॥ ५।३।१९
काशिका-वृत्तिः
तदो दा च ५।३।१९

तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनम् अनर्थकं, विहितत्वात्।
न्यासः
तदो दा च। , ५।३।१९

"अनर्थकम्()" इति। वैचित्र्यार्थम्()। अन्यस्याभावादनर्थकं वैचित्र्येण सार्थकमेव। "विहितत्वात्()" इति। "सर्वैकान्य" ५।३।१५ इत्यादिना॥
बाल-मनोरमा
तदो दा च १९४३, ५।३।१९

तदो दा च। सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः।

तदो दावचनमिति। वार्तिकमिदम्। विहितत्वादिति। "सर्वैकान्ये"त्यनेने"ति शेषः।