पूर्वम्: ५।३।५
अनन्तरम्: ५।३।७
 
सूत्रम्
सर्वस्य सोऽन्यतरस्यां दि॥ ५।३।६
काशिका-वृत्तिः
सर्वस्य सो ऽन्यतरस्यां दि ५।३।६

सर्वस्य स इत्ययम् आदेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो ऽन्यतरस्याम्। सर्वदा। सदा। प्राग्दिशीये इत्येव, सर्वं ददाति इति सर्वदा ब्राह्मणी।
लघु-सिद्धान्त-कौमुदी
सर्वस्य सोऽन्यतरस्यां दि १२१३, ५।३।६

दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे॥
न्यासः
सर्वस्य सोऽन्यतरस्यां दि। , ५।३।६

"दीति" दकारादियं सप्तमी। तत्र दकारमात्रस्य प्राग्दिशीयस्याभावात्? "यस्मिन्विधिस्तदादावल्ग्रहणे" (वा। १४) इत्यतो दकारादौ विधिज्र्ञायत इत्याह--"प्राग्दिशीये दकारादौ" इत्यादि। "सर्वदा ब्राआहृआणी" इति। "आतोऽनुपसर्गे कः" ३।२।३, ततष्टाप्()॥
बाल-मनोरमा
आत्मनश्च ९४८, ५।३।६

तत्रात्मनश्चेत्यंशं व्याक्यातु पृथगुपादत्ते--आत्मनश्चेति। चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह--आत्मनस्तृतीयाया अलुगिति। "उत्तरपदे परे" इति शेषः। पूरण इति वक्तव्यमिति। नाऽत्र पूरणशब्दो गृह्रते, किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् "प्रत्ययग्रहणे" इति तदन्तविधिरित्यभिप्रेत्याह--पूरणप्रत्ययान्ते इति। आत्मनापञ्चम इति आत्मा पञ्चम इत्यर्थः। प्रकृत्यादित्वात्प्रथमार्थे तृतीया। यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः। करणे तृतीया। करोतिक्रियान्तर्भावेण तस्याः "तृतीया तत्कृते"ति समासः। पक्षद्वयमपीदं भाष्ये स्थितम्। ननु सङ्खर्षणप्रद्युम्नाऽनिरुद्धास्त्रयो विष्णुव्यूहाः। जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम्। तत्रेदमाहुः पौराणिकाः--"जनार्दनस्त्वात्मचतुर्थ एवे"ति। तत्र तृतीयाया अलुकि "आत्मनाचतुर्थ" इति भवितव्यमित्यत आह--जनार्दनास्त्विति। बहुव्रीहिरिति। आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः। एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः। तदिदं भाष्ये स्पष्टम्।

बाल-मनोरमा
सर्वस्य सोऽन्यतरस्यां दि १९२७, ५।३।६

सर्वस्य सो। "दि" इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम्। "यस्मिन्विधि"रिति तदादिविधिः। तदाह--प्राग्दिशीये दकाराविति। सदा इत्युदाहरणम्।

तत्त्व-बोधिनी
आत्मनश्च ८१९, ५।३।६

आत्मनापञ्चम इति। तृतीयेति योगविभागात्समासः। इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके। आत्मना कृतः पञ्चमः इति करोतिक्रियापेक्षा सेत्यन्ये।

पूरण इति वक्तव्यम्। बहुव्रीहर्बोध्य इति। एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः।