पूर्वम्: ५।३।६१
अनन्तरम्: ५।३।६३
 
सूत्रम्
वृद्धस्य च॥ ५।३।६२
काशिका-वृत्तिः
वृद्धस्य च ५।३।६२

वृद्धशब्दस्य च ज्य इत्ययम् आदेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववज् ज्ञाप्यते। सर्वे इमे वृद्धाः, अयम् एषाम् अतिशयेन वृद्धः ज्येष्ठः। उभाविमौ वृद्धौ, अयम् अनयोरतिशयेन वृद्धः ज्यायान्। अयम् अस्माज् ज्यायान्। प्रियस्थिर इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सो ऽपि भवति। वर्षिष्ठः। वर्षीयान्।
न्यासः
वृद्धस्य च। , ५।३।६२

"वृद्धशब्दस्य" इति। "वृद्ध" इत्येतस्य शब्दस्येत्यर्थः। एतेन "वृद्धस्य" इति स्वरूपग्रहणं दर्शयति। ननु च वृद्धशब्दश्च संज्ञा कृता--"वृद्धिर्यस्याचामादिस्तद्वृद्धम्()" १।१।७२ इति, अतस्तत्प्रत्यायितस्यैव संज्ञिनो ग्रहणं न स्वरूपस्य, "स्वं रूपं शब्दस्याशब्दसंज्ञा" (१।१।६८) इति वचनात्()? नैष दोषः, "प्रशस्यस्य" इत्येतदिहानुवत्र्तते, तेन वृद्धशब्दो विशेष्यते--प्रशस्यस्य वृद्धस्येति। स्वरूपग्रहणे वयोऽधिके च शब्दार्थे प्रशस्यता युज्यते, न पारिभाषिकग्रहणे। अथ वा--स्थानेऽन्तरतमपरिभाषया १।१।४९ ज्यशब्दस्य योऽन्तरतमः स एव स्थानो विज्ञायते, अन्तरतमश्च तस्य वृद्धशब्द एव, तेन तस्यैव ग्रहणं युक्तम्()। "तयोश्च" इत्यादि। यथा "प्रशस्यस्य श्रः" ५।३।६० इत्यत्र नियमाभावेनाजाद्योः प्रत्यययोः सत्त्वं ज्ञापितम्(), तथेहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परतः पूर्ववदादेशविषानादेव वेदितव्यः॥
बाल-मनोरमा
वृद्धस्य च , ५।३।६२

वृद्धस्य च। शेषपूरणेन सूत्रं व्याचष्टे--ज्यादेशः स्यादजाद्योरिति। इष्ठन्नीयसुनोरित्यर्थः। ज्येष्ठ इति। अयमनयोरति शयेन वृद्ध इत्यर्थः।

तत्त्व-बोधिनी
वृद्धस्य च १५०७, ५।३।६२

वृद्धस्य च। स्वरूपस्येह ग्रहणं, न तु "वृद्धिर्यस्याचामादि"रिति पारिभाषिकस्य, व्याख्यानात्। अस्य "प्रियस्थिरे"त्यादिना वर्षादेसोऽपि पक्षे भवति। न च तस्येमनिचि सावकाशता शङ्क्या, वृद्धशब्दादिमनिचोऽभावात्। यदि तु "वृद्धस्य वर्षिश्चे"ति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः।