पूर्वम्: ५।३।६०
अनन्तरम्: ५।३।६२
 
सूत्रम्
ज्य च॥ ५।३।६१
काशिका-वृत्तिः
ज्य च ५।३।६१

प्रशस्य शब्दस्य ज्य इत्ययम् आदेशो भवति अजाद्योः प्रत्यययोः परतः। सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः ज्येष्ठः। उभाविमौ प्रशस्यौ, अयम् अनयोरतिशयेन प्रशस्यः ज्यायान्। अयमस्मात् ज्यायान्। ज्यादादीयसः ६।४।१६० इत्याकारः।
लघु-सिद्धान्त-कौमुदी
ज्य च १२२८, ५।३।६१

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥
न्यासः
ज्य च। , ५।३।६१

योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरार्थश्च। उत्तरत्र वृद्धशब्दस्य ज्यादेश एव यथा स्यात्(), श्रादेशो मा भूविति॥
बाल-मनोरमा
ज्य च , ५।३।६१

ज्य च। "ज्ये"ति लुप्तप्रथमाकम्। प्रशस्यस्येति, अजादी इति चानुवर्तते। तदाह--प्रशस्यस्येति। ज्येष्ठ इति। "प्रकृत्यैका"जिति प्रकृतिभावान्न टिलोपः। #ईयसु निज्यादेशे "ज्येया"निति प्राप्ते--।