पूर्वम्: ५।३।६५
अनन्तरम्: ५।३।६७
 
सूत्रम्
प्रशंसायां रूपप्॥ ५।३।६६
काशिका-वृत्तिः
प्रशंसायां रूपप् ५।३।६६

प्रशंसा स्तुतिः। प्रकृत्यर्थस्य विशेषणम् च एतत्। प्रशंसाविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति। स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति। प्रशस्तो वैयाकरणो वैयाकरणरूपः। याज्ञिकरूपः। प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति। वृषलरूपो ऽयं यः पलाण्डुना सुरां पिबति। चोररूपः, दस्युरूपः, यो ऽक्ष्णोरप्यञ्जनं हरेत्। तिङश्च ५।३।५६ इत्यनुवर्तते। पचतिरूपम्। पचतोरूपम्। पचन्तिरूपम्। क्रियाप्रधानम् आख्यातम्। एका च क्रिया इति रुपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य।
न्यासः
प्रशंसायां रूपप्?। , ५।३।६६

"स्वार्थिकाश्च" इत्यादि। प्रकृत्यर्थविशेषणं प्रसंसादि, तस्य द्योतकाः स्वार्थिका भवन्ति, न त्वथन्तिरस्य वाचकाः। यदि प्रशंसायां वर्त्त्मानाद्रूपब्विधीयते, निन्दायां वत्र्तमानान्न प्राप्नोति-वृषषलरूपोऽयम्(), चौररूपोऽयमिति। वृषलादयो हि शब्दाः सदा निन्दावचनाः; न कदाचित्प्रशंसायां वत्र्तन्ते, यथा काकादयः शब्दा:? इत्यत आह--"प्रकृत्यर्थस्य" इत्यादि। प्रकृत्यर्थस्य वैशिष्ट()ं परिपूर्णत्वम्(), तस्मिन्? सति प्रशंसा भवति। एवञ्च यदा वृषलादिशब्दानामपि पदार्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वत्र्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वत्र्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्रणतां दर्शयति। वृषलशब्दस्य हि शूद्रो वाच्यः। स यदा पलाण्ड्वादिकमपि साधुजनगहितमभ्यवहरति तदा प रपूर्णत्वं तस्य शूद्रत्वम्()। शूद्रः=सर्वाशी, सर्वविक्रयीति। चौरशब्दार्थस्यापि सुगुप्तवस्त्वपहारेण परिपूर्णता भवति। ननु च "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवत्र्तन्ते" (व्या।प।७४) इति प्रकृत्यर्थस्य ये लिङ्गवचने ते स्वार्थिकप्रत्ययान्तस्यापि भवत इति भावः। ततश्च पचतोरूपम्(), पचन्तिरूपमित्यत्र द्विवचनबहवचनाभ्यां भवितव्यम्()? इत्यत आह--"क्रियाप्रधानम्()" इत्यादि। आख्यातस्य यद्यपि क्रिया साधनञ्चोभयं वाच्यम्(), तथापि तस्य क्रियैव प्रधानमर्थः। यश्च प्रधानं प्रकृत्यर्थस्तस्यैव लिङ्गवचनं स्वार्थिकैरनुवत्र्तयितुं युक्तम्()। क्रियाप्रधानमेकैव च क्रिया। तेन रूपप्प्रत्ययान्तादाख्याताद्()द्विवचनबहवचने न भवतः। नपुंसकलिङ्गमपि तर्हि न स्यात्(), क्रियाया अलिङ्गत्वात्()? इत्यत आह--"नपुंसकलिङ्गं तु" इत्यादि। तत्रैव हेतुमाह--"लोकाश्रयत्वाल्लिङ्गस्य" इति। यदि तर्हि ह्रोका क्रिया, पचतः, पचन्तीति द्विवचनबहुवचने न सिध्यतः? नैष दोषः; यद्यपि ह्रेका क्रिया, साधनं ह्रनेकम्(), अतस्तदाश्रये द्विवचनबहुवचने भविष्यतः। रूपप्प्रत्ययान्तात्? तर्हि स्याताम्()? तिङ्न्तेनोक्तत्वान्न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिरकत्वात्(), "एकवचनमुत्सर्गतः करिष्यते" इति वचनात्()॥
बाल-मनोरमा
प्रशंसायां रूपप् , ५।३।६६

प्रशंसायां रूपप्। सुबन्तात्तिङन्ताच्चेति। शेषपूरणमिदम्। "तिङश्चे"त्यनुवृत्तम्, प्रातिपदिकादिति च। "धकाले"त्यादिलिङ्घात्सुबन्तादिति लभ्यत इति भावः। प्रशंसाविसिष्टे स्वार्थे वर्तमानात्तिङन्तात्सुबन्ताच्च रूपविति फलितम्। पचतिरूपमिति। प्रशस्ता पाकक्रियेत्यर्थः। अत्र भाष्ये "क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामे"ति सिद्धान्तितम्। पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने, तिङैव द्वित्वबहुत्वयोरुक्तत्वात्। एकवचनं तूत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकादित्यपि भाष्ये स्पष्टम्।

ईषदसमाप्तौ। ईषदसमाप्तिविशिष्ठेऽर्थे। यशस्कल्पमिति। असंपूर्णं यश इत्यर्थः। "सोऽपदादौ" इति सत्वम्। यजुष्कल्पमिति। असंपूर्णं यजुरित्यर्थः। "इणः षः" इति षत्वम्। विद्वद्देश्य इति। असम्पूर्णवैदुष्यवानित्यर्थः। एवं विद्वद्देशीयः। अत्र सर्वत्र "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्नयनुवर्तन्ते" इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम्। पचतिकल्पमिति। असंपूर्णा पाकक्रियेत्यर्थः। "पचतिरूप"मिति वल्लिङ्गवचननिर्वाहः। एवं "वृषभकल्प इयं गौ"रित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम्। "क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गावचनान्यतिवर्तन्ते" इति वचनाद्गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः। एतत्सर्वमत्रैव भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
प्रशंसायां रूपप् १५१२, ५।३।६६

प्रशंसायां रूपप्। प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुः। तेनेहापि भवति----"चौररूपोऽयं यदक्ष्णोरप्यञ्झनं हरति। गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते। पचतिरूपमिति। क्रियाप्रधानमाख्यातम्। क्रियायाश्चाऽसत्त्वरूपत्वेऽपि औत्सिर्गिकमेकवचनं भवति। तेन पचतोरूपं पचन्तिरूपमित्यादि। इह प्रथमैव, विबक्त्यन्तराणामप्राप्तेरिति बहुवः। वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा। क्लाबत्वं लोकात्। "एवं "पचतिकल्प"मित्यादावपि बोध्यम्।ट