पूर्वम्: ५।३।६६
अनन्तरम्: ५।३।६८
 
सूत्रम्
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॥ ५।३।६७
काशिका-वृत्तिः
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७

सम्पूर्णता पदार्थानां समाप्तिः। स्तोकेनासम्पूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं च एतत्। ईषदसमाप्तिविशेष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् कल्पप् देश्य देशीयरित्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः। मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः। तिङश्च ५।३।५६ इत्येव, पचतिकल्पम्। जल्पतिकल्पम्।
लघु-सिद्धान्त-कौमुदी
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः १२३३, ५।३।६७

ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥
न्यासः
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। , ५।३।६७