पूर्वम्: ५।३।८६
अनन्तरम्: ५।३।८८
 
सूत्रम्
संज्ञायां कन्॥ ५।३।८७
काशिका-वृत्तिः
संज्ञायां कन् ५।३।८७

ह्रस्वे इत्येव। ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन्प्रत्ययो भवति। पूर्वस्य अयम् अपवादः। वंशकः। वेणुकः। दण्डकः।
न्यासः
संज्ञायां कन्?। , ५।३।८७

बाल-मनोरमा
संज्ञायां कन् , ५।३।८७

संज्ञायां कन्। वंशक इति। ह्यस्वस्य वेणुजातिविशेषस्य नाम।