पूर्वम्: ५।३।८७
अनन्तरम्: ५।३।८९
 
सूत्रम्
कुटीशमीशुण्डाभ्यो रः॥ ५।३।८८
काशिका-वृत्तिः
कुटीशमीशुण्डाभ्यो रः ५।३।८८

ह्रस्वे इत्येव। संज्ञाग्रहणं न अनुवर्तते। सामान्येन विधानम्। कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति। कस्य अपवादः। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः। स्वार्थिकत्वे ऽपि पुंलिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य।
न्यासः
कुटीशमीशुणाडाभ्यो रः। , ५।३।८८

"कुटीरः। शमीरः" इति। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनृवत्र्तते इति प्रकृतिगतेनैव स्त्रीलिङ्गेन भवितव्यम्(), न पुल्लिङ्गेन? इत्यत आह--"स्वार्थिकत्वेऽपि" इत्यादि॥
बाल-मनोरमा
कुटीशमीशुण्जाभ्यो रः , ५।३।८८

कुटीशमी। ह्यस्व इत्येव कुटीर इति। "स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते" इति पुंस्त्वम्। एवं शमीरः शुण्डार इत्यपि। ह्यस्वा शमी, शुण्डा चेत्यर्थः।

तत्त्व-बोधिनी
कुटीशमीशुण्डाभ्यो रः १५२४, ५।३।८८

कुटीर इति। "स्वार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते"इति पुंलिङ्गताऽत्र सङ्गच्छते।