पूर्वम्: ५।३।९२
अनन्तरम्: ५।३।९४
 
सूत्रम्
वा बहूनां जातिपरिप्रश्ने डतमच्॥ ५।३।९३
काशिका-वृत्तिः
वा बहूनां जातिपरिप्रश्नो डतमच् ५।३।९३

किंयत्तदः इति वर्तते निर्धारने, एकस्य इति च। बहूनाम् इति निर्धारने षष्ठी। बहुनां मध्ये एकस्य निर्धारने गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यः वा डतमच् प्रत्ययो भवति। कतमो भवतां कठः। यतमो भवताम् कठः, ततम आगच्छतु। वावचनम् अकजर्थम्। यको भवतां कठः, सक आगच्छतु। महाविभाषा च प्रत्ययविकलोपार्था अनुवर्तते एव। को भवतां कठः। यो भवतां कठः, स आगच्छतु। जातिपरिप्रश्ने इति किम्? को भवताम् देवदत्तः। परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोः, असम्भवात्। जातिग्रहणं तु सर्वैरेव सम्बद्यते। किमो ऽस्मिन् विषये डतरम् अपि इच्छन्ति केचित्, कतरो भवतां कालापः इति। तत्र कतरकतमौ जातिअपरिप्रश्ने २।१।६२ इति वचनात् सिद्धम्।
लघु-सिद्धान्त-कौमुदी
वा बहूनां जातिपरिप्रश्ने डतमच् १२४०, ५।३।९३

जातिपरिप्रश्न इति प्रत्याख्यातमाकरे। बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात्। कतमो भवतां कठः। यतमः। ततमः। वाग्रहणमकजर्थम्। यकः। सकः॥
लघु-सिद्धान्त-कौमुदी
इति प्रागिवीयाः १५ १२४०, ५।३।९३

लघु-सिद्धान्त-कौमुदी
अथ स्वार्थिकाः १२४०, ५।३।९३

न्यासः
वा बहूनां जातिपरिग्रश्ने डतमच्?। , ५।३।९३

"जातिपरिप्रश्नविषयेभ्यः" इति। जातिपरिप्रश्नो यथासम्भवं येषां ते तथोक्ताः। "कतमो भवतां कटः" इति। "गोत्रञ्च चरणैः सह" (म। भा। २।२२५) इति तस्य जातित्वम्()। सा च कठजातिः किं शब्देन परिपृच्छ्यते। किंशब्दोऽत्र जातिपरिप्रश्नविषयो भवति। "यतमो भवतां कठस्ततम आगच्छतु" इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयो भवति। "यतमो भवतां कठस्ततम आगच्छतु" इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयौ; असंभवात्(), न हि ताभ्यां परिप्रश्नः क्रियते, किं तर्हि? किंशब्देन। अत एव वक्ष्यति--"परिप्रश्नग्रहणं किम एव विशेषणम्(), न यत्तदोः, असम्भवात्()" इति। "वावचनमकजर्थम्()" इति। पक्षेऽकजपि यथा स्यात्()। यद्येवम्? वाक्यं न सिध्यति, यदा हि डतमज्? न भवत्यकचैव भवितव्यम्()? इत्यत आह--"महाविभाषा" इत्यादि। अत्र च महीविबाषा प्रत्ययविकल्पार्थाऽनुवत्र्तते, तया प्रत्यये विकल्पिते पक्षे वाक्यमपि भविष्यति। "जातिग्रहणं तु सर्वैः सम्बध्यते" इति। जातिः सवत्रैव भवति, तत्र जात्यादिना किं शब्दे विशेष्यमाणे सामध्र्यादेव तस्य परिप्रश्नविषयत्वं लभ्यते? नैतदस्ति; स हि क्षेपेऽपि वत्र्तते। तत्रासति परिप्रश्नग्रहणे यदा आतौ क्षेपे वत्र्तते, तदा प्रत्ययः स्यात्()॥
बाल-मनोरमा
वा बहूनां जातिपरिप्रश्ने डतमच् , ५।३।९३

वा बहूनाम्। किंयत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते। बहूनामिति निर्धारणे षष्ठी। तदाह--बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति। "मध्ये" इत्यनन्तरम् --एकस्येति शेषः। जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम्। जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्लः। जातौ परिप्रश्ने च गम्ये इत्यर्थः। तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम्। परिप्रश्नग्रहणं तु किम एव विशेषणं, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम्। यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम्। अत्र वार्तिकम्--"किमादीनां द्विबह्वर्थे प्रत्ययविधानापरिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम्। अत्र वार्तिकम्--"किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य"मिति। "पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव" इति कैयटः। तदाह--प्रत्याख्यातमाकरे इति। क्षेपार्थस्य त्वनभिदानान्न ग्रहणमिति तदाशयः। पूर्वसूत्रे द्वयोरिति चेति बोध्यम्। तथाच "कतम एषां पाचकः, शूरो, देवदत्तः, इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमज् भवति। "एषां कतरो देवदत्तः" इत्यत्र बहूनाम#एकस्य निर्धारणे डतरच् भवति। अत एव प्रत्ययः" इति सूत्रभाष्ये "बहुष्वासीनेषु कस्छित् कंचित्पृच्छति कतरो देवदत्तः" इति प्रयोगः सङ्गच्छते। कतमो भवतां कठ इति। "गोत्रं च चरणैः सहे"ति कठस्य जातित्वम्। वाग्रहणमकजर्थमिति। अन्यथा महाविभाषया।ञपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेरुक्तत्वादकच् न स्वादिति भावः। नच "अव्ययसर्वनाम्ना"मित्यस्याधिकारत्वात्तदनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमेवेति वाच्यम्, इहैव सूत्रे तदनुवृत्तिर्नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात्। अतो डतरज्विषये नाऽकच्। महाविभाषयेति। अत एव "अवक्षेपणे" इति सूत्रे भाष्ये "क एतयोरर्थयोर्विशेषः" इति प्रयोगः सङ्गच्छते। "तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः" इति तु प्रायिकमिति भावः।

किमोऽस्मिन्निति। "वा बहूना"मिति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनषु इत्याद्युदाह्मतभाष्यप्रयोगादिति भावः।

तत्त्व-बोधिनी
वा बहूनां जातिपरिप्रश्ने डतमच् १५२७, ५।३।९३

वा बहूनाम्। "किंयत्तदः"इति वर्तते। जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः। तत्र जाताविति सर्वेषां विशेषणम्। षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्यं संबन्धोऽनुपपन्नः स्यात्। परिप्रश्नग्रहणं तु किम एव विश्षणम्। तच्च क्षेपनिवृत्त्यर्थम्। तत्र जातिग्रहणं प्रायोऽभिप्रायम्। क्रियागुणसंज्ञाभिरपि निर्धारणे डतरच इष्टत्वात्। तता पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम्। बहूनां निर्धारणेऽपि ढतरच इष्टत्वात्। तथा च वार्तिकम्---"किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य"मिति। अत्र कैयटः--- "द्वयो"रिति , "जातिपरिप्रश्ने"इति च न कर्तव्यमिति भाव इति। तदेतदाह---प्रत्याख्यातमाकर इति। कठैति। "कतमो भवतामध्यापकः, शूरो, देवदत्तो वे"त्यप्युदाहर्तव्यम्। यकः सक इति। "कक"इति तु नोक्तम्। अकच्सहितस्यापि "किमः कः"इत्ययमादेश इति व्याख्यातत्वात्। महाविभाषयेति। "प्रागिदिशः" इति सूत्रे समर्थप्रथमग्रहणयोर्निवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः। "किंयत्तदः"इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह---किमोऽस्मिन्निति।