पूर्वम्: ५।३।९३
अनन्तरम्: ५।३।९५
 
सूत्रम्
एकाच्च प्राचाम्॥ ५।३।९४
काशिका-वृत्तिः
एकाच् च प्राचाम् ५।३।९४

एकशब्दात् प्राचाम् आचार्याणां मतेन डतरच् डतमचित्येतौ प्रत्ययौ भवतः स्वस्मिन् विष्यए। चकारो डतरचो ऽनुकर्सणार्थः। द्वयोर् निर्धारने डतरच्, बहूनां निर्धारने डतमच्। जातिपरिप्रश्ने इति न अनुवर्तते। सामान्येन विधानम्। एकतरो भवतोर् देवदत्तः। एकतमो भवतां देवदत्तः। प्राचांग्रहणं पूजार्थं, विकल्पो ऽनुवर्तते एव।
न्यासः
एकच्च प्राचाम्?। , ५।३।९४

"स्वस्मिन्? विषये" इति। आत्मीये विषये। तत्र द्वयोरेकस्य निर्वारणं डतरचो विषयः बहूनामेकस्य निर्धारणे डतमचः। चकारोऽनुकर्षणार्थः। असति हि तस्मिन्? "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या। प। १९) इति डतमजेव स्यात्(); द्वयोनिर्धारणे द्वयोरेकस्य डतरजित्यनुवृत्तेः, बहूनां निर्धारणे डतमजित्यनुवृत्तेः। विकल्पार्थं प्राग्ग्रहणं कस्()मान्न भवति? इत्याह--"विकल्पोऽनुवत्र्तत एव" इति। अनन्तरसूत्राद्वेत्यनुवत्र्तत एवेति विक्लप इत्युक्तम्(), तेनैव प्रत्ययविकल्पः सिद्धः। तसमात्? पूजार्थमेव प्राग्ग्रहणम्(), न दिकल्पार्थम्()॥
बाल-मनोरमा
एकाच्च प्राचाम् , ५।३।९४

एकाच्च प्राचाम्। शेषपूरणेन सूत्रं व्याचष्टे--डतरच्--डतमच्च स्यादिति। "पूर्वसूत्रद्वयविषये" इति शेषः। "महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य"मिति भाष्यम्। अत एव नाऽकजर्थं तत्।

तत्त्व-बोधिनी
एकाच्च प्राचाम् १५२८, ५।३।९४

एकाच्च। प्राचांग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव।