कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्र एवं सूत्रम् ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः। सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः स्त्रियाम् एव, तत्र ङीप्प्रत्यये एव, न अन्यदा। कुम्भपदी। शतपदी। यच् च इह उपमानपूर्वं सङ्ख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। पादो ऽन्यतरस्याम्
४।१।८ इति विकओपो न भवति। कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पज्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः।
"कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ()न्ते" इति। यद्येवम्(),
कथमिदं नेतव्यम्()? इत्याह--"तत्रैवम्()" इत्यादि। तत्र तेषु कुम्भपदीप्रभृतिषु कृतपादलोपेषु पठितेष्वेवं व्याख्येयमित्यर्थः। कुम्भपद्यादिविषयेय यथा कुम्भपद्यादयः सम्भवन्तीति। किमर्थं पुनः समुदाया एव पठ()न्ते,
न कुम्भपदादीन्? शब्दान्? प्रातिपदिकेषु पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत? इत्याह--"समुदायपाठस्य च" इत्यादि। यदि कुम्भादिभ्यः परस्य पादस्य स लोप उच्येत, "कृतपादलोपाः समुदाया एव न पठ()एरन्()" इति नियमो न लभ्येत। ततस्त्रिष्वपि लिङ्गेषु स्युः, स्त्रियामेव चेष्यन्ते। समुदायपाठे सति स्त्रियां ङीप्प्रत्यय एव विषयभूते भवति। "नान्यदा" इति। "कुम्भपदी" इति। "पादोऽन्यतरस्याम्()"
४।१।८ इति ङीपि विषयभूते पादस्य लोपः ततो ङीप्(),
तस्मिन्? "पादः पत्()"
६।४।१३० इति पद्भावः।
"यच्चेहोपमानपूर्वम्()" इति--कुम्भपदी, जालपदीत्येवमादि। "संख्यापूर्वपदञ्च" इति--एकपदी शतपदीत्येवमादि। "तस्य सिद्धे" इति। उपमानपूर्वस्य पूर्वेणैव सिद्धे संख्यापूर्वस्य तूत्तरेण।
"अष्टापदी" इत्यस्मिन्? पठ()ते। तत्र निपातनं दीर्घत्वार्थम्()। "अष्टनः संज्ञायाम्()"
६।३।१२४ इति वा॥
कुम्भपदीषु च। कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः। ङीप् चेति। "पादोऽन्यतरस्या"मिति विकल्पापवाद इति। भावः। स्त्रियामिति। कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः। कुम्भपदीति। कुम्भस्येव पादावस्येति विग्रहः। "पदास्य लोपोऽहस्त्यादिभ्यः" इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम्।
कुम्भपदीषु च। बहुवचननिर्देशाद्गणपाठसामथ्र्याच्चाद्य्र्थावगतिरित्यभिप्रेत्याह--कुम्भपद्यादिष्विति। इह गणे--कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठ()न्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह---स्त्रियामिति। यच्चेहोपमानपूर्वं संख्यापूर्वं च पठ()ते तस्य सिद्धे लोपे नित्यङीबर्थं वचनं तेन "पादोऽन्यतरस्या"मिति विकल्पा न भवति।