पूर्वम्: ६।४।१२९
अनन्तरम्: ६।४।१३१
 
सूत्रम्
पादः पत्॥ ६।४।१३०
काशिका-वृत्तिः
वक्ष्यति पादः पत् ६।४।१३०

द्विपदः पश्य। द्विपदा कृतम्। भस्य इति किम्? द्विपादौ। द्विपादः। पादः पत् ६।४।१३०। पादः इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्य अङ्गस्य भस्य पतित्ययम् आदेशो भवति। स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य एव भवति, न तदन्तस्य सर्वस्य। द्विपदः पश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः।
लघु-सिद्धान्त-कौमुदी
पादः पत् ३३५, ६।४।१३०

पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥
न्यासः
पादः पत्?। , ६।४।१३०

"पादः" इति। "पादशब्दो लुप्ताकारो गृह्रते" इति। अथ पादयतेः क्विबन्तस्य यः पाच्छब्दः सम्पद्यते स कस्मान्न गृह्रते? तस्यासम्भवात्()। पादयतेर्हि क्विप्? "अन्येभ्योऽपि दृश्यते" (३।२।१७८) इत्यनेन स्यात्()? स च "दृश्यते" इति वचनान्न भवति। यत्र लोके क्विबन्तप्रोयगो दृश्यते तत्र यथा स्यादित्येवमर्थं हि तत्र "दुश्यते" इत्तयुक्तम्(), न च पादयतेः क्विबन्तस्य प्रयोगो दृश्यते? पादशब्दस्य समास एवाकारो लुप्यते, तेन सामथ्र्यात्? तदन्तस्याङ्गस्य कार्यं विज्ञायत इत्याह--"तदन्तस्याङ्गस्य" इत्यादि। यदि तर्हि पाच्छब्दन्तस्याङ्गस्य पदित्ययमादेशो विज्ञायेत, एवं तर्हि "ये न विधिस्तदन्तस्य" १।१।७१ इति सर्वस्य तदन्तस्य प्राप्नोतीत्याह--"स च" इत्यादि। "द्विपदः" इति। द्वौ पादवस्येति बहुव्रीहिः। "संख्यासुपूर्वस्य" ५।४।१४० इत्यकारलोपः। "द्विपदिकाम्()" इति। द्वौ द्वौ पादौ ददातीति "पादशतस्य" ५।४।१ इत्यादिना वुन्()। "वैयाघ्रपद्यः" इति। व्याघ्रस्येव पादावस्येति बहुव्रीहिः, "पादस्य लोपोऽहस्त्यादिभ्यः" ५।४।१३८ इत्यकारलोपः, व्याघ्रपदोऽपत्यमिति गर्गादित्वाद्यञ्()॥