पूर्वम्: ६।१।१०३
अनन्तरम्: ६।१।१०५
 
सूत्रम्
सम्प्रसारणाच्च॥ ६।१।१०४
काशिका-वृत्तिः
सम्प्रसारणाच् च ६।१।१०८

पूर्वः इत्येव। सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि इष्टम्। वपि उप्तम्। ग्रहि गृहीतम्। सम्प्रसरणविधानसामर्थ्यात् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसि ६।१।१०२ इत्येव, मित्रो नो अत्र वरुणो यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् सम्प्रसारणविधानम् इति इष्ट इत्येवम् आदिषु पूर्वत्वभावे यणादेशो भवत्येव। अन्तरङ्गे च अचि इऋतार्थं वचनम् इति बाह्ये पश्चात् सन्निपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्।
लघु-सिद्धान्त-कौमुदी
संप्रसारणाच्च २५९, ६।१।१०४

संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥
न्यासः
सम्प्रसारणाच्च। , ६।१।१०४

सम्प्रसारणस्य यणादेशो मा भूदित्येवमर्थमिदं परपूर्वत्वं विधीयते। यदि चात्र यणादेशः स्यात्(), तदा संप्रसारणविधानामनर्थकं स्यात्? तस्मात्()। सम्प्रसारणविधानसामथ्र्यादेव यणादेशो न भविष्यति, तत्? किमर्थमिदं विधीयते? इत्याह--"सभ्प्रसारणविधानसामथ्र्यात्()" इत्यादि। सम्प्रसारणविधानसामथ्र्याद्यणादेशो न भवतीति विगृहीतस्याकृतसंहिताकार्यस्य श्रवणं प्राप्नोति, तस्मान्मा भूदेष दोष इति परपूर्वत्वं विधीयते। "वा च्छन्दसीत्येव" इत्यादि। अत्रापि पूर्ववद्वाक्यभेदो द्रष्टव्यः; अन्यथा भाषायां न स्यात्()। "यज्यमानः" [यज्यमानौ--काशिका] इति। परपूर्वत्वाभावपक्षे यणादेशः। कथं पुनरत्र यणादेशः, यावता विगृहीतस्यैव ग्रहणेन भवितव्यम्(), इदानीमेव ह्रुक्तम्()--सम्प्रसारणविधानसामथ्र्याद्विगृहीतस्यैव श्रवणे प्राप्ते परपूर्वत्वं विधीयते? इत्यत आह--परपूर्वत्वविधाने" इत्यादि। अनारब्धे हि परपूर्वत्वे विगृहीतस्यैव श्रवणं प्राप्नोति, मा भूत्? सम्प्रसारणस्य वैय्यथ्र्यमिति कृत्वा। सति तु परपूर्वत्वे यत्र परपूर्वत्वम्()--इष्टमित्यादौ, तत्रार्थवत्? सम्प्रसारणम्()। अतः परपूर्वत्वाभावपक्षे यणादेशो भवत्येव। अथेह कस्मान्न भवति--शकह्वौ शकह्वर्थमिति; अत्र हि शकं ह्वयतीति क्विप्(), यजादित्वात्? सम्प्रसारणम्(), परपूर्वत्वम्(), तस्य "अग्तादिवच्च" (६।१।८५) इति सम्प्रसारणग्रहणेन ग्रहणात्? सम्प्रसारणासम्प्रसारणयोरेकादेशस्य सम्प्रसारणस्य व्यपदेशभावत्वात्(), औकारेऽर्थशब्दे च परतो व्यवस्थिते "सम्प्रसारणाच्च" (६।१।१०८) इति परपूर्वत्वं प्राप्नोति? इत्यत आह--"अन्तरङ्गे चाचि" इत्यादि। योऽयं ह्वयतेरेचः स्थाने विहित आकारः स सम्प्रसारणस्यान्तरङ्गः प्रत्यासन्नः; उभयोरप्येकधात्वन्तर्गतत्वात्()। औकारोऽर्थशब्दाकारश्च विप्रकृष्टः। विप्रकृष्टस्तु देशतः कालतश्च, यदाह--"ब्राआह्रे" इति। यस्य धातोः सम्प्रसारणमवयवः, तत्रानन्तर्भावाद्बाह्रः। कालतश्च, यदाह--"पश्चात्? सन्निपतिते" इति। पूर्वरूपविधानकालादुतरकालं सन्निहित इत्यर्थः। तत्र सन्निकृष्टविप्रकृष्टयोरचोः प्रत्यासत्तेरन्तरङ्गो योऽच्? तत्रेदं वचनं प्रवत्र्तते, ततर चरितार्थमिति विप्रकृष्ट औकारादौ पश्चात्? सन्निहते न भवति॥
बाल-मनोरमा
संप्रसारणाच्च , ६।१।१०४

संप्रसारणमिति। तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते। संप्रसारणमित्यननुवृत्तौ "अलोऽन्त्यस्य" इति हकारस्य स्यात्। तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति। वि()आ ऊ आह् असिति स्थिते-। संप्रसारणाच्च। "इको यणची"त्यतोऽचीति "अमि पूर्वः" इत्यतः पूर्व इति चानुवर्तते। "एकः पूर्वपरयोः" इत्यधिकृतम्। तदाह--संप्रसारणादित्यादिना। वि()आ ऊह असिति स्थिते आद्गुणमाशङ्क्याह--एत्येधत्यूठ्स्विति। "अनेन गुणापवादो वृद्धि"रिति शेषः। वि()आऔहः। वि()आऔहा। इत्यादीति। वि()आवाड्भ्याम् वि()आवाड्भिः। वि()आवाड्भ्यः। वि()आऔहे। वि()आऔहः। वि()आऔहः। वि()आऔहोः वि()आऔहाम्। वि()आवाट्त्सु वि()आवाट्सु। ननु वहश्चेति ण्विविधौ "छन्दसि सहः" इत्यतश्छन्दसीति केचिदनुवर्तयन्ति। तन्मते वि()आआह्शब्दस्य लोके कथं प्रयोग इत्यत आह--छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति। वि()आं वाहयतीत्यर्थे वाह् इ इति ण्यन्तात् "अन्येभ्योऽपि दृश्यते" इति विचि "नेड्वशि कृती"ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे वि()आआह्शब्दो सोते प्रयोगार्हः। किन्तु तस्य ऊठ् न भवति, "अचः परस्मि"न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात्। वाहयतेः क्विपि वि()आवाह्शब्दस्य तूठ् निर्हाध एव, "क्वौ लुप्त"मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात्। अत एव "विभाषा पूर्वाह्णापरह्णाभ्या"मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये "प्रष्ठौह" इति प्रयोगः सङ्गच्छते। क्वचित्पुस्तके "छन्दस्येव ण्विरिति प्रामाणिकाः" इति पठ()ते। "कव्यपुरीष" इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः। अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च। "वचिस्वपियजादीनां किती"ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः। "संप्रसारणाच्चे"ति पूर्वरूपम्। अनडुहिति रूपं। ततः सुबुत्पत्तिः।

तत्त्व-बोधिनी
संप्रसारणाच्च २९०, ६।१।१०४

संप्रसारणाच्च। "अमि पूर्वः"इत्यतः "पूर्व"इति वर्तते" "इकोयणची"त्यतोऽचीति च, "एकः पूर्वपरयो"रिति ताधिक्रियते। तदाह----संप्रसारणादचीत्यादिना।छन्दस्येव ण्विरिति। "वहश्चे"ति सूत्रे "भजो ण्विः""छन्दसि सहः"इत्यतो ण्विप्रत्यस्य "च्छन्दसी"त्यस्य चाऽनुवृत्तेरिति भावः। स्यादेतत्--"वाहः"इत्येव सूत्रमस्तु, संप्रसारणमेवाऽन्न विधीयतां, तस्य लघूपधगुणो कृते "वृद्धिरेची"ति वृद्धौ सिद्धं "वि()आऔह"इत्यादि, किमूठ्ग्रहणेन()। सत्यम्। एवं स्थिते क्रियमाणमूठ्ग्रहणं बहिरङ्गपरिभाषां ज्ञापयति। तस्यां हि सत्यां जातस्य बहिरङ्गस्य संप्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम्। नन्वनकारान्तोपपदेऽकारान्तोपसर्गोपपदे च रूपे विशेषः स्यादिति कथमऋठग्रहणं ज्ञापकमिति चेत्, अत्राहुः कैयटादयः---भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाऽभावोऽनुमीयत इति। एतेन भुवं वहतीति भूवाट्। भूहः। भूहा। प्रौहः। प्रौहेत्यादिप्रयोगाः परास्ताः।