पूर्वम्: ६।१।११०
अनन्तरम्: ६।१।११२
 
सूत्रम्
नान्तः पदम् (प्रकृत्याऽन्तः पादम्) (अव्यपरे)॥ ६।१।१११
काशिका-वृत्तिः
प्रकृत्या ऽन्तःपादम् अव्यपरे ६।१।११५

एङो ऽति ६।१।१०५ इत्येव। एङः इति यत् पञ्चम्यन्तम् अनुवर्तते, तदर्थादिह प्रथमान्तं भवति। प्रकृतिः इति स्वभावः कारणम् वा ऽभिधीयते। अन्तरिति अव्ययम् अधिकरनभूतं मध्यम् आचष्टे। पादशब्देन च ऋक्पादस्य एव ग्रहणम् इष्यते, न तु श्लोकपदस्य। अवकारयकारपरे अति परतः एङ् प्रकृत्या भवति। स्वभावेन अवतिष्ठते कारणात्मना वा भवति, न विकारम् आपद्यते। तौ चेन् निमित्तकार्यिणौ अन्तःपादमृक्पादमध्ये भवतः। ते अग्रे अश्वमायुञ्जन्। ते अस्मिञ्जवमादधुः। उपप्रयन्तो अध्वरम्। शिरो अपश्यम् सुजाते अश्वसूनृते। अध्वर्त्यो अद्रिभिः सुतम्। अन्तःपादम् इति किम्। कया मती कुत एतास एते ऽर्चन्ति। अव्यपरे इति किम्। ते ऽवदन्। तेजो ऽयस्मयम्। एङिति किम्? अन्वग्निरुषसामग्रमख्यत्। केचिदिदं सूत्रं न अन्तःपादम् अव्यपरे इति पठन्ति, ते संहितायाम् इह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति।
न्यासः
प्रकृत्याऽन्तःपादमव्यपरे। , ६।१।१११

"प्रकृत्या" इति। करणे तृतीया। "अन्तःपादम्()" इति। सप्तम्यन्तमेतत्()। विभक्त्यर्थेऽव्ययीभावं विधाय ततः सप्तमी, तस्याः "तृतीयासप्तम्योर्बहुलम्()" २।४।८४ इत्यम्भावः कृतः। "एङः" इत्यादि। पञ्चम्यन्तस्यैङः प्रकृत्या भवतीत्यनेन सम्बन्धो नोपपद्यते। तस्मादिहार्थादेङ्ग्रहणं प्रथमान्तमुपजायते। "प्रकृतिः" इत्यादिना प्रकृतिशब्दस्यामाचष्टे। प्रकृतिशब्दो हि लोके स्वभावे प्रयुज्यते, यता--दुस्त्यजा प्रकृतिरिति, कारणेऽपि यथा--दध्नः क्षीरं प्रकृति रति, तदिहापि स एवार्थस्तस्य विज्ञायते। अन्तरित्यव्ययमधिकरणभूतमिति। अत एवान्तः-पादमित्यव्ययीभावो भवति। "पादशब्देन" इत्यादि। कथं पुनरृक्पादस्यैव ग्रहणं लभ्यते, यावता पादशब्दः सामान्यवाची? एवं मन्यते---"वा छन्दास" ६।१।१०२ इत्यतः छन्दोग्रहणमिह मण्डूकप्लुतिन्यायेनानुवत्र्तते, तेन ऋक्पादस्यैव ग्रहणं विज्ञायते। अथ "सर्वत्र विभाषा गोः" (६।१।१२२) इत्यतः सूत्रात्? प्राक्छन्दस्येव कार्यं विज्ञायते। एवं हि तत्र सर्वत्रगरहणमर्थवद्भवति यदि च्छन्दसि पूर्वं विधानं भवति। एवमवयवानापर्थमाख्याय "अवकारयकार" इत्यादिना समुदायस्यार्थमाचष्टे। अविद्यमानौ वकारयकारौ यस्य स तथोक्तः। "स्वभावेन" इत्यादि। यदा प्रकृतिशब्दः स्वबावे वत्र्तमानो गृह्रते, तदायमर्थः--एङ्? स्वभावेन भवति। स्वभावपरत्यागेन संहिताकार्यं नोपपद्यत इति। यदा तु कारणे वत्र्तमानस्य प्रकृतिशब्दस्य परिग्रहस्तदायमर्थः--एङ्? कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ, तस्य य आत्मा स्वरूपं तेनैवात्मनैङ्? भवतीत्येतदुक्तं भवति--प्राक्? संहिताकार्याद्यदेङो रूपं तेनैव तदवतिष्ठत इति। अनन्तरोक्तमेवार्थद्वयं स्पष्टीकर्त्तुमाह--न "विकारमापद्यते" इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्दथालक्षणा विकारावस्था नोत्पद्येत। तदैवं कारणात्मनापि भवति, यदि विकारभावं नोत्पद्यते। यदि कार्यात्मना न विपरिणमतीत्यर्थः। "नो चेन्निमित्तकायणौ" इति। निमित्तं परत्वविशिष्टोऽकारः। तत्र हि परतः प्रकृतिभावो विधीयते। कार्यी त्वेङ्(), तस्य हि कार्यं प्रकृतिभावोऽस्ति। "ते अग्रे अश्चमायुञ्जन्()" इति। अस्य ऋक्पादस्य मध्ये य एङ् एकारस्तेशब्देऽग्रेशब्दे च तसय तदनन्तरे प्रकृतिभावत्? "एङः पदान्तादाति" ६।१।१०५ इति पूर्वरूपं न भवति, अयादेशश्च। "उपप्रयन्तो अध्वरम्()" इति। अत्रापि प्रयन्त इति शब्दौकारस्यैङोऽध्वरशब्दस्यानन्तरे प्रकृतभावात्? पूर्वरूपं न भवति, अवादेशश्च। एवं "सुजाते अ()आ" इत्यादावपि प्रकृतिभावात्? पूर्वरूपा दकार्यस्याभावो वेदितव्यः। "एतेऽर्चयन्ति" इति। अत्रेते शब्दे य एङ् एकारः स पदान्ते वत्र्तते। तदनन्तरस्त्वकारः पादादौ, न पादमध्ये। "तेऽवदन्()" इति। अत्र तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति; तदनन्तरस्यातो वकारपरत्वात्()। "अवदन्()" इति। वदतेर्लङि प्रथमपुरुषबहुवचनान्तम्()। "तेऽयजान्()" इति। अत्रापि तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति। तदनन्तरस्यातो यकारपरत्वात्()। "अन्वग्नि" इत्यादि। सर्वमत्रास्ति, न त्वनुशब्द उकार एङ् भवति, नास्य प्रकृतिभावः। "केचित्()" इत्यादि। यदि तर्हि "नान्तःपादमव्यपरे" इति सूत्रं पठन्ति, एवं सति परपूर्वस्यैव प्रतिषेधः कृतः स्यात्(), नायवोः; तथा हि--परपूर्वत्वमेङोऽनन्तरविहितम्()? इत्यत्? आह--"ते संहितायाम्()" इत्यादि। यदि परपूर्वत्वं संहिताकार्यं विशेषणमपेक्ष्यायं प्रतिषेधः क्रियते, तदायं दोषः स्यात्()। यदा तु संहिताधिकारविहितं कार्यंमात्रमपेक्ष्य प्रतिषेधो विधीयते, तदा सर्वस्यैव संहिताधिकारविहितस्य कार्यस्य प्रतिषेधो युक्त इति तेषां भावः॥