पूर्वम्: ६।१।११८
अनन्तरम्: ६।१।१२०
 
सूत्रम्
अवङ् स्फोटायनस्य॥ ६।१।११९
काशिका-वृत्तिः
अवङ् स्फोटायनस्य ६।१।१२३

अति इति निवृत्तम्। अचि इत्येतत् त्वनुवर्तत एव। अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति। गवाग्रम्, गो ऽग्रम्। गवाजिनम्, गो ऽजिनम्। गवौ दनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्। आद्युदात्तश्च अयम् आदेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति। गावः अग्रम् अस्य गवाग्रः इति। अन्यत्र तु समासान्तौदात्तत्वेन बाध्यते। स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते। व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यम् अवङ् भवति।
न्यासः
अवङ् स्फोटायनस्य। , ६।१।११९

"अतीति निवृत्तम्()" इति। यद्यपीत्यनुवत्र्तेत तदा गवौदनादौ न स्यात्(), तस्मादतीत्येतदस्वरितत्वा न्निवृतम्()। हल्यपि तर्हि प्राप्नोति? इत्यत आह--"अचीत्येतत्पुनरनुवत्र्तते" इति। "इको यणचि" ६।१।७४ इत्यतः; सा पुनस्तस्यानुवृत्तिर्मण्डूकपलुतिन्यायेन वेदितव्या। न हि "सम्प्रसारणाच्च" (६।१।१०८) इत्यतः परेण ये योगा अस्माद्योगात्? पूर्वं तेषु "अति" इत्यस्यानुवृत्तिरस्ति। तथा च पूर्वमुक्तम्()--"अचीति चायमधिकारः "सम्प्रसारणाच्च" ६।१।१०४ इति यावत" इति। "गवाग्रहम्(), गवाजिनम्()" इति। बहुव्रीहिः, तत्पुरुषो वा। "गवोष्ट्रम्()" इति द्वन्द्वः। "आद्युदात्तश्चायम्()" इत्यादि। इह गावोऽग्रमस्येति बहुव्रीहौ कृते पूर्वपदप्रकृतिस्वरत्वं च च प्राप्नोति, अवङादेशश्च, तत्रान्तरङ्गत्वादवङ्भवति, स च भवन्? प्रातिपदेकस्वरेणान्तोदात्तस्य गोशब्दस्य स्थान आन्तरयतोऽन्तोदात्त एव स्यात्()। तस्मिन्? सति पश्चात्? प्रकृतिस्वरे कृतेऽन्तोदात्तत्वं पूर्वपदस्यापद्येत, आद्युदात्तश्चेष्यते, तस्मादाद्युदात्तोऽयमादेशो निपात्यते। यद्येवम्(), तत्पुरुषादावपि स एव निपातनस्वरः प्राप्नोति? इत्यत आह--"अन्यत्र तु" इत्यादि। अन्यत्रेति--तत्पुरुषे, द्वन्द्वे च। गोशब्दस्यायमादेश इति तत्सम्बन्ध्येव शब्दान्तरं निपातनस्वरेण बाध्यते, न समासस्वरः। तस्माद्वहुव्रीहेरन्यत्र तत्पुरषादौ समासान्तोदात्तत्वेन निपातनस्वरो बाध्यते, "स्फोटायनग्रहणं पूजार्थम्()" इति। किं पुनः कारणं विकल्पार्थं न भवति? इत्याह--विभाषेत्येव हि वत्र्तते" इति। किमर्थं पुनरवङ् विधीयते? अगेव न विधीयेत, तत्रापि ह्रवादेशेन सिध्यत्येव? सिध्यति; "एङः पदान्तादति" ६।१।१०५ इति पूर्वरूपत्वं प्राप्नोति। ननु चाकि विहिते सति तदन्तो न भवति? आगमस्य तद्ग्रहणेन ग्रहणात्()।न ह्रोकारस्य प्राक्? प्रवृत्ता पदान्तता नास्तीति शक्यं वक्तुम्()॥
बाल-मनोरमा
अवङ् स्फोटायनस्य ८८, ६।१।११९

अवङ् स्फोटायनस्य। अतीति निवृत्तमिति। "एङः पदान्तादित्यत" इति शेषः, व्याख्यानादिति भावः। पदान्तादिति, गोरिति, अचीति चानुवर्तते। स्फोटायनस्य ऋषेर्मतेऽवङ्। अन्यस्य तु न। ततश्च विकल्पः सिद्धः। तदाह--अचि पर इत्यादिना। "ङिच्चे"त्यन्तादेशः। गवाग्रमिति। गो-अग्रहमिति स्थिते गकारादोकारस्यावङ्। गव-अग्रमिति स्थिते सवर्णदीर्घः। न चाऽग्रशब्देऽकारमचं परत्वेनाश्रित्य प्रवृत्तोऽवङ् कथं तद्विघातकं सवर्णदीर्घं प्रवर्तयति, संनिपातपरिभाषाविरोधादिति वाच्यं, संनिपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात्। गवीति। "गो इ"-इति स्थिते ओकारस्य पदान्तत्वविरहान्नावङ्। नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे किन्त्ववादेशः। अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत्। व्यवस्तितेति। क्वचिद्भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते। ततश्च गवाक्ष इत्यत्र नित्यमवङित्यर्थः। इदं च--"देवत्रातो""गलो""ग्राह" "इतयोगे च सद्विधिः"। मिथस्ते न विभाष्यन्ते "गवाक्षः" "संशितव्रतः"॥ इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम्। गवाक्ष इति। गवां किरणानामक्षीवेति विग्रहः। "अक्ष्णोऽदर्शना"दित्यच। पुंस्त्वं लोकात्। "वातायनं गवाक्षः स्यात्" इत्यमरः।

तत्त्व-बोधिनी
अवङ् स्फोटायनस्य ७२, ६।१।११९

अवङ् स्फोटायनस्य। स्फोटोऽयनं परायणं यस्य सः स्फोटप्रतिपादनपरो वैयाकरणः। तस्य स्फोटायनस्य। अत्रापि "एङन्तस्या गो"रिति व्याख्येयम्। "अ"गित्येव सूत्रयितुमुचितम्। विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम्। अतीति निवृत्तमिति। अन्यथा "गवेशः" "गवोद्धः" इत्यादि न सिद्ध्येदिति भावः। अचि पर इति। अत्रा"चीत्यनुवर्तते, अतीति तु निवृत्तमित्यत्र व्याख्यानमेव शरणम्। गवाक्ष इति। गवां=किरणानाम् अक्षीवेति विग्रहः। "अक्ष्णोऽदर्शना"दित्यच्समासान्तः। वातायने रूढोऽयम्। पुंस्त्वं लोकात्।