*****इति बालमनोरमायां समासाश्रयविधयः।*****
* अथ वासुदेवदीक्षितकृता बालमनोरमा *
स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम्।
पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन्॥ १॥
अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये।
किंचास्तु पतञ्जलये भ्रात्रे वि()ओ()आराय गुरवे च॥ २॥
व्याख्याता बहुभिः प्रौढेरेषा सिद्धांन्तकौमुदी।
वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥ ३॥
मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः" इति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतांष विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षितं प्रतिजानीते--मुनित्रयमिति श्लोकेन। "इयं वैयाकरणसिद्धान्तकौमुदी विरच्यते" इत्यन्वयः। "इय"मिति ग्रन्थरूपा वाक्यावलिर्विवक्षिता। भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देशः। व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः-एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका। अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेशः। चन्द्रिका-हि तमो निरस्यति, भावान् सुखं प्रकाशयति, दिन करकिरणसंपर्कजनितं संतापमपगमयति। एवमियमपि ग्रन्थरूपवाक्यावलिरज्ञानात्मकं तमो निरस्यति, मुनित्रयग्रन्थभावाननायासं प्रकाशयति, अतिविस्तृतदुरूहभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसंतापं च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याध्यवसायः। विरच्यते=क्रियते। वर्तमानसामीप्याद्वर्तमानव्यपदेशः। किं कृत्वेत्यत आह--मुनित्रयं नमस्कृत्येति। त्रयोऽवयवा अस्य समुदायस्य त्रयं। त्र्यवयवकसमुदायः। "संख्याया अवयवे तयप्()" इति तयप्तद्धितः। "द्वित्रिभ्यां तयस्यायज्वा" इति तयस्याऽयजादेशः। मुनीनां त्रयमिति षष्ठीसमासः। त्रयाणां मुनीनां समुदाय इति यावत्। यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाऽभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वादसामथ्र्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयमिति प्रथमं व्युत्पाद्यम्। अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामथ्र्यम्। ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति, तस्य प्रत्ययार्थतया प्रधानत्वात्। न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वयः, "पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन" इति न्यायात्। ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्संख्यायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां संनिहितपदान्तरोपस्थितत्वान्भुनय एव परिच्छेंद्यतया संबध्यन्ते---त्रयाणां मुनीनां समुदाय इति। सोऽयं पार्ष्ठिकान्वयोऽरुणाधिकरणन्यायविदां सुगम इत्यलं विस्तरेण। मुनित्रयमिति कर्मणि द्वितीया। "नमः स्वस्ति" इति चतुर्थी तु न,कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात्। नमस्कृत्य। अजलिशिरः-संयोगादिव्यापारेण तोषयित्वेत्यर्थः। नमस्करोतेरजलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वेऽकर्मकत्वापत्त्या द्वितीयानुपपत्तेः। ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां सङ्ग्रहात्तैरेव ग्रन्तैश्चरितार्थत्वात्। किमनेन ग्रन्थेनेत्यत आह--तदुक्तीः परिभाव्य चेति। तस्य मुनित्रयस्य उक्तयः तदुक्तयः=सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्याबलयः। ताः परिभाव्य च=सम्यगालोच्य चेत्यर्थः। भूधातोः स्वार्थिकणिजन्ताद्रूपम्। चुरादौ हि "भुवोऽवकल्कने" इत्यत्र ण्यन्तभूधातोश्चन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव। नच "अनादरः परिभवः परीभावस्तिरक्रिया" इति कोशविरोधः शङ्क्यः, कोशस्य अण्यन्तभूधातुविषयत्वात्। "परौ भुवोऽवज्ञाने" इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात्। एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां प्रक्रियाकौमुदीप्रसीदादिकृतामुक्तीस्तिरस्कृत्येत्यर्थ इति व्याख्यानं क्लिष्टत्वादुपेक्षितम्। अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं, प्राचीनप्रक्रियाकौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम्। तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव। वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसंज्ञया वैयाकरणसिद्धान्ताःप्रतिपाद्यत्वेन विषयाः। अनायासेन तदवगमः प्रयोजनम्। तस्य ग्रन्थस्य च जन्यजनकभावः संबन्धः। वैयकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम्। अथ वैयाकरणसिद्धान्तानिरूपयिष्यन्, व्याकरणशास्त्रस्य मूलभूतानि चतुर्दश सूत्राणि पठति--ऐउणित्यादिना। नन्विमानि सूत्राणि मुनित्रयग्रन्थबर्हिभूतत्वादप्रमाणमित्यत आह--इति माहे()आराणि सूत्राणीति। मबे()आरादागतानि माहे()आराणि। "तत आगतः" इत्यण्()। महे()आरादधिगतानीति यावत्। तदुक्तं पाणिनिशिष्टप्रणीतशिक्षयाम्--"येनाक्षरसमास्नायमधिगम्य महे()आरात्। कृत्स्नं व्याकरणं प्रोक्तं तस्यै पाणिनये नमः॥" इति। एतचतुर्दशसूत्रव्याख्यायां नन्दिके()आरकृतायां काशिकायामप्युक्तम्--"नृतावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्। उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥" इति।
अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः। ढक्कां नादयामासेत्यर्थः। नवपञ्चवारं=चतुर्दशकृत्वः। एतत्=शिवढक्कोत्थितं वर्णजालं, शिवसूत्रजालतया विमर्शे=जानामीत्यर्थः। आर्षस्तङ्()। एवं च महे()आरेण प्रोक्तानि माहे()आराणीति निरस्तम्। एतेन माहे()आरत्वादेतेषां सूत्राणां नाऽप्रामाण्यमित्युक्तं भवति। नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाऽभावादिह तदुपन्यासो व्यर्थ इत्यत आह--अणाअदिसंज्ञार्थानीति। अण्? आदिर्यासां ताः अणादयः, अणादयश्च ताः संज्ञाश्च अणादिसंज्ञाः, ताः अर्थः प्रयोजनं येषां तानि--अणादिसंज्ञार्थानि। अनर्थकवर्णराशित्वेऽपि एषां सूत्राणां व्याकरणशास्त्रगतव्यवहारोपय ग्यणादिसंज्ञासु उपयोगान्नाऽऽनर्थक्यमिति भावः। कथमेषां सूत्राणामणादिसंज्ञार्थत्वमित्यत आह--एषामन्त्या इत इति। एषामुदाह्मतसूत्राणामन्त्याः अन्ते भवा णकारादिवर्णाः इत्संज्ञकाः प्रत्येतव्या इत्यर्थः। लण्()सूत्रे अकारश्चेति। "इत"इत्यनुषज्यते। तच्च एकवचनान्ततया विपरिणम्यते। लण्सूत्रे लकारात्परोऽकारश्च इत्संज्ञकः प्रत्येतव्य इत्यर्थः। अनन्त्यत्वात्पृथक्()प्रतिज्ञा। ननु लण्सूत्र एव अकारस्य इत्संज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह--हकारादिष्वकार उच्चारणार्थ इति। हकारादीनां सुखोच्चारणार्थं पुनः पुनरकारपाठ इत्यर्थः। अन्यता ह्()य्?व्()रित्येवं क्लिष्टोच्चारणापत्तेरिति भावः। अथवा अचं विना हलामुच्चारणाऽभावात् पुनः पुनरकारपाठो हकाराद्युच्चारणार्थ इत्येव व्याख्येयम्। अत एव "उच्चैरुदात्तः" इति सूत्रे भाष्यम्--"नान्तरेणाऽचं व्यञ्जनस्योच्चारणं भवति" इति। अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम्। एवं च "वर्णात्कारः" इति कारप्रत्यये सति ककार इत्यादि (रूपाणि)। वागित्याद्यवसानेषु, वृक्ष इत्यादौ संयुक्त वर्णेषु च पदान्ते "चोः कुः" इत्यादिविधिबलात्, "हलोऽनन्तराः संयोगः" इत्यादिशास्त्रबलाच्च नायं नियम इत्यलम्। ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानामित्संज्ञा प्रतिज्ञाता--"एषामन्त्या इत" इति। तदनुपपन्नम्। तेषां हि "हलन्त्यम्" इति सूत्रेण इत्संज्ञा वक्तव्या। तच्च सूत्रं हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति। हल्संज्ञा च हलिति सूत्रे लकारस्य इत्संज्ञायां सत्याम् "आदिरन्त्येन सहेता" इति सूत्रेण वाच्या। हलिति सूत्रे लकारस्य इत्संज्ञा च "हलन्त्यम्" इति सूत्रप्रवृत्तिः, "हलन्त्यम्" इति सूत्रे हल्सूत्रे लकारस्य इत्संज्ञायाम् "आदिरन्त्येन सहेता" इति हल्संज्ञासिद्धिरित्येवं "हलन्त्यम्" "आदिरन्त्येन" इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः। एवं च हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित्सूत्रेण इत्संज्ञामबोधयित्वा "हलन्त्यम्" इति हलामित्संज्ञाबोधनं पाणिनेरयुक्तमित्याशङ्क्य हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्संज्ञां विधातुं "हलन्त्यम्" इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति--हलन्त्यम्।
तद्वृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। तद्वृहतोरिति। गणसूत्रमेतत्। तादिति। "तलोपश्चे"त्यत्रे"ति शेषः।
प्रायस्य चित्तिचित्तयोः। प्रायस्येति। गणसूत्रमेतदपि। "प्रायः पापं विजानीयाच्चित्तं तस्य विशोधन"मिति स्मृतिः। आकृतिगणोऽयमिति। तेन शतात्पराणि परश्शतानि कार्याणीत्यादि सिद्धम्। इह "सुप्सुपे"ति वा, "पञ्चमी"ति योगविभागाद्वा समासः। राजदन्तादित्वाच्छतशब्दस्य परनिपातः, पारस्करादित्वात्सुट्।
इति तत्त्वबोधिन्यां समासाश्रयविधयः।
* ॐ श्रीगणेशाय नमः *
तत्त्वबोधिनी-बालमनोरमा-व्याख्याद्वयविराजिता
वैयाकरण-सिद्धान्तकौमुदी।
-------------------
तस्याः पूर्वाद्र्धम्।
अथ संज्ञाप्रकरणम्
------------
मुनित्रयं
-----
सिद्धान्तकौमिदीव्याख्या क्रियते तत्त्वबोधिनी॥ १॥
विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नंश्चिकीर्षितं प्रतिजानीते-मुनित्रयमित्यादिना। त्रयोऽवयवा यस्येति त्रयम्। "संख्याया अवयवे तयप्"। "द्वित्रिभ्यां तयस्य-" इत्ययच्। मन्तारे वेदशास्त्रार्थतत्त्वावगन्तारो मुनयः। "मनेरुच्च" इत्यौणादिकसूत्रेण मनेरत उकारो मनेः पर इन् प्रत्ययश्च। गुणस्तु नेह भवति, किदित्यनुवर्तनात्, तपरकरणाद्वा। तेषा पाणिनिकात्यायनपतञ्जलीनां त्रयं मिनित्रयम्। ननु "स्वयंभुवे नमस्कृत्य" इत्यत्रेवात्रापि "नमःस्वस्ति-" इत्यादिना चतुर्थी स्यात्। मैवम्। "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति वक्ष्यमाणत्वात् "नमस्करोति देवान्" इतिवद्द्वितीयाया एव युक्तत्वात्। किंच "जहत्स्वार्था वृत्तिः" इति पक्षे नमःशब्दस्यात्र निरर्थकत्वात्तद्योगे चतुर्थी न भवति, अर्थवह्यहणपरिभाषायाः प्रवृत्तेः। "स्वयंभुवे नमस्कृत्य" इत्यत्र तु स्वयंभुवमनुकूलयितुमित्यर्थविवक्षायां "क्रियार्थोपपदस्य-" इत्यादिना चतुर्थीति मूल एव स्फुटीभविष्यति। नचैवं "नमःस्वस्ति-" इति सूत्रे नमःपदं व्यर्थमिति शङ्क्यम्, हरये नम इत्यत्र हरिमनुकूलयितुमित्यर्थेऽविवक्षिते संबन्धसामान्ये षष्ठ()आं प्राप्तायां तदपवादतया तस्यावश्यकत्वात्। तदुक्तीरिति। तेषांपाणिन्यादीनामुक्तीः। सूत्रवार्तिकभाष्याणीत्यर्थः। तस्य मुनित्रयस्योक्तीरिति व्याख्यानेऽपि समुदायेन सूत्रं वार्तिकं भाष्यं वा नोक्तमिति समुदायिनां मुनीनामेवोक्तीरिति पर्यवस्यति।
परिभाव्येति। पर्यालोच्येत्यर्थः। नच परिपूर्वस्य भवतेस्तिरस्कारार्थत्वात्कथमत्र ज्ञानार्थतेति शङ्क्यम्, परीत्यस्य भावीति चुरादिणिजन्तेन योगात्। केचिदत्र भवतिना योगमभ्युपेत्याहुः-"पुरौ भुवोऽवज्ञाने" इति सूत्रे परौ भुव इत्यस्यावज्ञान #इति विशेषणान्न तिरस्कारार्थत्वनियमः। "मनसा परिभाव्य किंचित्" इत्यादि-श्रीहर्षप्रयोगाच्च। अतएवात्राऽप्रयुक्तत्वदोषशङ्कापि नास्तीति। अन्ये तु-"अनादरः परिभवः परीभावस्तिरस्क्रिया" इति कोशात्परिपूर्वकाद्भवतेर्घञन्तादेव तिरस्कारप्रतीतिर्नान्यस्मादित्याशङ्कैवात्र नास्तीत्याहुः। तन्मन्दम्। परिभूय परिभवतीत्यतोऽपि तिरस्कारप्रतीतेः।
वैयाकरणेति। व्याकरणमधीयते विदन्ति वा वैयाकरणाः। तत्सिद्धान्ताना कौमुदी। प्रकाशिकेत्यर्थः। निर्दुष्टसकलजनाह्लादकत्वसाम्येन"कौमिदी"शब्दप्रयोगः। करिष्यमाणाया अपि कौमुद्या बुद्ध्या संनिधापितत्वादियमित्यङ्गुल्या निर्देशः। विरच्यत इति। "मये"ति शेषः। "रच प्रतियत्रे। प्रतियन्त्रो गुणाधानम्। विपूर्वादस्माद्वर्तमानसामीप्ये भविष्यदर्थे वर्तमानप्रत्ययः।
ऐउणिति। णोऽनुबन्धोऽण्संज्ञार्थः। या या संज्ञा सा सा प्रयोजनवती। ऋलृगिति। ककारस्त्वक्(िकुसंज्ञार्थः॥ एओङिति। ङकार एङ्संज्ञार्थः॥ ऐऔजिति। चकारस्वचिचेचैच्()संज्ञार्थः। वर्णानामसन्दिग्धत्वेन बोधनाय संहिताया अविवक्षणादेतेष्वसन्धिः। स्वराणां चादिषु पाठात् "चादयोऽसत्त्वे" इति निपातसंज्ञायां "निपात एकाजनाङ्" इति प्रगृह्रत्वे प्रकृतिभावान्न सन्धिरित्यन्ये। स्यादेतत्। अकाराद्युपदेशेन यथा तत्सवर्णानामाकारादीनां लाभात्पृथगाकारादयो नोपदिष्टास्तथा ॠलृवर्णयोरपि सावण्र्यादृकारोपदेशेनैवेभयसिद्धेः किं पृथगुपदेशेन?। न च जातिपक्षे ॠलृवर्णयोः पृथगुपदेश-आवश्यकस्तयोर्भिन्नजातित्वादिति वाच्यम्, सावण्र्यादेवैकजात्युपदेशे जात्यन्तरस्यापि लाभात्। ॠलृवर्णयोः प्रत्येकं तिं()रशतः संज्ञासिद्धये "अणुदित्सवर्णस्य-" इति सूत्रे अणग्रहणस्य जातिपक्षेऽप्यावश्यकत्वादिति चेत्। अत्राहुः-ॠलृवर्णयोः सावण्र्यस्याऽनित्यतां ज्ञापयितुमुभयोर्निर्देशः, तत्फलं तु क्लृप्ता शिखा यस्य क्लृप्तशिखः, तस्य दूरात्संबोधने क्लृप्तशिखेति प्लुतः। ॠलृवर्णयोः सावण्र्यस्य नित्यत्वे तु "अनृतः" इति पर्युदासादृकारस्येव लृकारस्यापि प्लुतो न स्यादिति समाधानान्तरमपि "ओर्गुणः" इत्यत्र दर्शयिष्यते॥ हयवरडिति। टोऽनुबन्धोऽट्संज्ञार्थः। हकारोपदेशस्तु अटाश्()हश्(िण्()ग्रहणेषु हकारग्रहणार्थः। अर्हेण। "अङ्वयवायेऽपि" इति णत्वम्। देवा हसन्ति। "भोभगो-" इति रोर्यत्वम्। देवो हसति। "हशि च" इत्युत्वम्। लिलिहिंध्वे लिलिहिढ्व। "विभाषेटः" इति वा ढः। लणिति। णकारोऽनुबन्धोऽण्(िण्()यण्()संज्ञार्थः। नन्वणिति क्वचित्पूर्वणकारेण गृह्रते, क्वचित्तु परेण णकारेण, इणिति तु परणकारेणैव। तथाच निःसन्देहार्थमनुबन्धान्तरमेव कर्तुमुचितम्। सत्यम्। "व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्" इति परिभाषाज्ञापनाय पुनर्णकारोऽनुबन्ध इति स्थितमाकरे। ञमङणनमिति। मकार इह अम्()यम्()ञम्()ङम्()संज्ञार्थः। झभञिति। ञकारोयञ्()संज्ञार्थः। घढधषिति। षकारस्तु झष्()भष्()संज्ञार्थः। जबगडदशिति। शोऽनुबन्धो अश्()हश्()वश्()झश्()जश्()बश्()संज्ञार्थः। खफछठथचटतविति। वकारस्तु छव्()संज्ञार्थः। कपयिति। यकारो यय्()मय्()झय्()खय्()चय्()संज्ञार्थः। शषसरिति। रेफस्तु यर्()झर्()खर्()चर्()शर्()संज्ञार्थः। हलिति। लकारः अल्()हल्()वल्()रल्()झल्()शल्()संज्ञार्थः। पुनर्हकारोपदेशस्तु वल्()रल्()झल्()शल्()षु हकारग्रहणार्थः। रुदिहि। स्वपिहि। "रुदादिभ्यः सार्वधातुके" इति वलादिलक्षण इट्। स्निहित्वा। "नक्त्वा सेट्" इति निषेधं बाधित्वा "रलो व्युपधात्-"इति वा कित्त्वम्। अदाग्धाम्। घत्वस्याऽसिद्धत्वेऽपि हकारस्य झल्त्वात् "झलो झलि" इति सलोपः। अलिक्षत्। "शलः-" इति क्सः। ननु पुनर्हकारोपदेशस्यावश्यकत्वेऽपि शर्मध्या एव हकारं पठित्वा "अलोऽन्त्यस्य", "हलोऽनन्तराः संयोगः", "झलो झलि", "शल इगुपधा-" इत्यादिसूत्राणि यावन्ति लानुबन्धानि तानि "अरोऽन्त्यस्य", "हरोष()नन्तराः" इत्येवंरूपेण रेफानुबन्धान्येव च कृत्वा "हल्" इति पृथक् सूत्रं त्यज्यताम्। मैवम्। तथाहि सति हरिर्हसति हरिर्हरिरित्यादि न सिध्येत्। तत्र "खरवसानयोर्विसर्जनीयः", "वा शरि" इत्यादिप्रसङ्गात्। अतो "हल्" इति सूत्रमावश्यकमेव। एवञ्च "हलिति सूत्रेऽन्त्यम्-" इति वक्ष्यमाणग्रन्थोऽपि स्वरसतः सङ्गच्छते। अणादिसंज्ञार्थानीति। अणादिसंज्ञा अर्थः प्रयोजनं येषा तानीति विग्रहः। अणादिसंज्ञाभ्य इमानि इत्यस्वपदविग्रहो वा। "अर्थेन नित्यसमासो विशेष्यलिङ्गता च" इति वक्ष्यमाणत्वात्। एषामन्त्या इति इति। एषां सूत्राणामन्त्या णादयो "हलन्त्यम्" इत्यनुपदं वक्ष्यमाणेनेत्संज्ञका इत्यर्थः। लण्सूत्रेऽकारश्चेति। अनन्त्यत्वात्पृथगुक्तिः। वचनविपरिणामेनेदिति सम्बध्यते। इत्संज्ञा चास्य "उपदेशेऽजनुनासिक इत्" इत्यनेन। एवञ्च णादिभिरिद्भिः "आदिरन्त्येन-" इति वक्ष्यमाणेन प्रत्याहारग्रहणात् "अणादिसंज्ञार्थानि" इति यदुक्तं तत्सङ्गच्छत् इति भावः। अकार उच्चारणार्थ इति। नतु लण्सूत्रस्थाऽकार इव प्रयोजनार्थ इत्यर्थः।