पूर्वम्: ६।१।१६३
अनन्तरम्: ६।१।१६५
 
सूत्रम्
अञ्चेश्छन्दस्यसर्वनामस्थानम्॥ ६।१।१६४
काशिका-वृत्तिः
अञ्चेश् छन्दस्यसर्वनामस्थानम् ६।१।१७०

अञ्चेः परा असर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये। इन्द्रो दधीचो अस्थभिः। चौ इति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादिः इति वर्तमानेन् शसो ऽपि परिग्रहार्थम् असर्वनामस्थानग्रहणम्। इह अपि यथा स्यात्, प्रतीचो बाहून् प्रतिभङ्ग्ध्येषाम् इति।
न्यासः
अञ्चेश्छन्दस्यसर्वनामस्थानम्?। , ६।१।१६४

"इन्द्रो दधीचः" इति। दध्यञ्चतीति "ऋत्विक्()" (३।२।५९) इत्यादिना क्विन्? अनुनासिकलोपः, षष्ठ()एकवचनम्(), "अचः" ६।४।१३८ इत्यकारलोपः, "चौ" ६।३।१३७ इति दीर्घः। "तृतीयादिः" इत्यादि। यदि सर्वनामस्थानग्रहणं क्रियते तदा शसो न स्यात्(); तस्यातृतीयादित्वात्()। अथापि तृतीयादिग्रहणं निवर्त्त्यत, एवमपि सर्वनामस्थानेऽपि स्यात्()। "प्रतीचः" इति। पूर्वेण तुल्यम्()॥