पूर्वम्: ६।१।१६४
अनन्तरम्: ६।१।१६६
 
सूत्रम्
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः॥ ६।१।१६५
काशिका-वृत्तिः
ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ६।१।१७१

ऊथ् इदम् पदादि अप् पुम् रै दिवित्येतेभ्यो ऽसर्वनामस्थानविभक्तिरुदात्ता भवति। ऊथ् प्रष्टौहः। प्रष्ठौहा। ऊठ्युपधाग्रहणं कर्तव्यम्। इह मा भूत्, अक्षद्युवा। अक्षद्युवे। इदम् आभ्याम्। एभिः। अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतम् इति। पदादयः पद्दन्नोमास ६।१।६१ इत्येवम् आदयो निश्पर्यन्ता इह गृह्यन्ते। नि पदश्चतुरो जहि। या दतो धावते। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। ग्रीवायां बद्धो अपि कक्ष आसनि। मत्स्यं न दीन उदनि क्षियन्तम्। अप् अपः पश्य। अद्भिः। अद्भ्यः। पुम् पुंसः। पुम्भ्याम्। पुम्भ्यः। पुंसा। पुंसे। रै रायः पश्य। राभ्याम्। राभिः। दिव् दिवः पश्य। दिवा। दिवे।
न्यासः
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः। , ६।१।१६५

"प्रष्ठौहः" इति। "वहश्च" ३।२।६४ इति ण्विः, "वाह ऊठ्()" ६।४।१३२ इत्यूठ्(), "एत्येधत्यूठ्()सु" ६।१।८६ इति वृद्धिः। "ऊठ्युपधाग्रहणम्()" इति। उपदाभूत ऊड्? गृह्रते येन तदुपधाग्रहणम्()" इति व्याख्यानं कत्र्तव्यमित्यर्थः। किमर्थम्()? इत्यत आह--"इह मा भूत्()" इति। तत्रैदं व्याख्यानम्()--"अन्तोदात्तात्()" ६।१।१६३ इत्यादिसुत्रादिहान्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते, तेनोपधाभूतादेव भवितव्यमिति तस्यैव ग्रहणं युक्तमिति। "अक्षद्युवा" इति। अक्षैर्दीष्यतीति क्विप्? "च्छ्ञोः शूडनुनासिके च" ६।४।१९ इति वकारस्योठ्(), यणादेशः। "आभ्याम्()" इति। इदमस्त्यदाद्यत्वम्(), "हलि लोपः" ७।२।११३ इतीद्रूपस्य लोपः। "अथो आभ्याम्()" इति। "इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ" २।४।३२ इत्यशादेशः। "निश्पर्यन्ता इह गृह्रन्ते" इति। एतदपि पूर्ववद्व्यवस्थितविभाषया लभ्यते, तस्यां हि सत्यां निश्पर्यन्तेभ्य एव भवितव्यम्()। तेषामेव ग्रहणं युक्तमिति त एव गृह्रन्ते। "निपदः" इति। शसि परतः पादस्य पदादेशः। "दतः" इति। अत्रापि दन्तशब्दस्य ददादेशः। "आसन्()" इति। अत्रासन्()शब्दस्य सप्तम्येकवचनेऽसन्नित्ययमादेशः। "उदन्()" इति। अत्रापयुदकशब्दस्योदन्नादेश-। "अद्भिः" इति। पकारस्य तकारः, तस्य जश्त्वम्()--दकारः। "राभ्याम्()" इति। "रायो हलि" ७।२।८५ इत्यात्त्वम्()॥