पूर्वम्: ६।१।१६५
अनन्तरम्: ६।१।१६७
 
सूत्रम्
अष्टनो दीर्घात्॥ ६।१।१६६
काशिका-वृत्तिः
अष्टनो दीर्घात् ६।१।१७२

अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठातष्टन्शब्दो ऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम् ६।१।१७४ इत्यस्य अपवादो विभक्तिरेव उदात्तत्वं विधीयते। दीर्घातिति किम्? अष्टसु प्रक्रमेषु ब्राह्मणो ऽग्नीनादधीत। इदम् एव दीर्घग्रहणम् अष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशो ऽष्टनः। स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किम् दीर्घग्रहणेन।
न्यासः
अष्टनो दीर्घात्?। , ६।१।१६६

"अष्टाभिः" इत्यादि। "अष्टन आ विभक्तौ" ७।२।८४ इत्यात्त्वम्()। "अष्टसु" इति। ननु चात्रापि भवितव्यमेवात्वेन, न हि तद्विधौ विकल्पप्रतिपादकं वचनमस्ति, नापि प्रकृतम्()? इत्यत आह--"इदमेव" इत्यादि। यदि हि नित्यमात्वं स्यादिह दीर्घग्रहणमनर्थकं स्यात्(), व्यावर्त्त्याभावात्(), कृतात्वस्य च षट्संज्ञामिति? इदमेव हि दीर्घग्रहणमष्टनो ज्ञापयतीति सम्बन्धनीयम्()। कथं पुनज्र्ञापयति? इत्याह--"अन्यथा हि" इत्यादि। दीर्घग्रहणं ह्रेवमर्थं क्रियते--यत्रात्वं नास्ति तत्रायं स्वरो मा भूदिति। यदि कृत्वपात्वसयाष्टनः षट्संज्ञा न स्यात्(), तदात्वपक्षे षट्संज्ञायामसत्यां सावकाशोऽष्टनः स्वरः, तत्रापि षट्()स्वरः प्राप्नोतीति कृत्वा। ततश्च यदि दीर्घग्रहणं न क्रियेत, तदानवकाशत्वाद्यदात्वपक्षेऽष्टनः स्वरो न भवति, तदेतरस्मिन्नपि पक्षे स्यात्()। अतस्तन्निवृत्त्ये दीर्घग्रहणं क्रियमाणमर्थवद्भवति। कृतात्वस्याष्टनः षट्संज्ञायाम्()--अष्टानामित्यत्र "षट्चतुभ्र्यश्च" (७।१।५५) इति नुट्? सिद्धो भवति॥