पूर्वम्: ६।१।१७५
अनन्तरम्: ६।१।१७७
 
सूत्रम्
न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः॥ ६।१।१७६
काशिका-वृत्तिः
न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः ६।१।१८२

गो श्वन्, साववर्णः सौ प्रथमैकवचने यदवर्णान्तम्, राडङ् क्रुङ् कृदित्येतेभ्यो यदुक्तं तन् न भवति। गवा, गवे, गोभ्याम् इति। सावेकाचस् तृतीयादिर् विभक्तिः ६।१।१६२ इति प्राप्तिः प्रतिषिध्यते। सुगुना, सुगवे, सुगुभ्याम्। अन्तोदात्तादुत्तरपदातिति प्राप्तिः। श्वन् शुना, शुने, श्वभ्याम्। परमशुना, परमशुने, परमश्वभ्याम्। पूर्ववत् प्राप्तिः। साववर्णः सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्। येभ्यः। तेभ्यः। केभ्यः। राट् राजतिः क्विबन्तः। राजा। परमराजः। अङ् अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्र अस्य नलोपो न अस्ति तत्र प्रतिषेधो यथा स्यात्। नाञ्चेः पूजायाम् ६।४।६०। इति प्रतिषिध्यते नलोपः। प्राञ्चा। प्राङ्भ्याम्। नलोपविषये तु भवत्येव विभक्तेरुदात्तत्वम्। प्राचा। प्राचे। प्राग्भ्याम्। क्रुङ् क्विन्नन्त एव क्रुञ्चा। परमक्रुञ्चा। कृत् करोति कृतिर् वा क्विबन्तः। कृता। परमकृता।
न्यासः
न गो�आन्साववर्णराडङ्क्रुङ्कृद्भ्यः। , ६।१।१७६

"सौ" इति। प्रथमैकवचनस्य सुशब्दस्य ग्रहणं वा स्यात्()? सप्तमी बहुवचनस्य वा? तत्र यदि सप्तमीबहुवचनस्य ग्रहणं स्यात्(), केभ्यः, तेभ्य इत्यत्र न स्यात्(), किंतच्छब्दयोः सप्तमीबहुवचने परतो नावर्णान्तत्वमुपपद्यते; कृतेऽपि त्यादाद्यत्वे "बहुवचने झल्येत्? ७।३।१०३ इत्येत्त्वविधानात्()। प्रथमैकवचनस्य तु ग्रहणे सत्यत्रापि भवति। तस्मादसप्तम्यां एव ग्रहणं युक्तमिति मत्वाऽ‌ऽह--"प्रथमैकवचने यदवर्णान्तम्()" इति। अनन्तरमिह प्रतिषेध्यं न भवतीति सर्वस्य षाष्ठिकस्वरस्य प्रतिषेधोऽयं विज्ञायत इतत्याह--"इत्येतेभ्यो यदुक्तं तन्न भवति" इति। शोभना गावोऽस्येति सुगुः, "गोस्त्रियोः" १।२।४८ इत्यादिना ह्यस्वः, "नञ्सुभ्याम्()" ६।२।१७१ इत्युत्तरपदस्यान्तोदात्तत्वम्()। "शुना" इति "()आयुवमघोनामतद्धिते" ६।४।१३३ इति सम्प्रसारणम्()। "पूर्ववत्? प्राप्तिः" इति। शुना, ()आभ्यामित्यत्र "सावेकाचः" ६।१।१६२ इत्यादिना प्राप्तिः। "परमशुना" इति। अत्राति "अन्तोदात्तादुत्तरपदात्()" ६।१।१६३ इत्यन्तोदात्तत्वं तु समासस्वरेण। "राजा, परमराजः" इति। अत्रापि पूर्ववत्प्राप्तिः। "अञ्चतिः क्विन्नन्तः" इति। यद्येवम्(), तर्हि तत्र नकारलोपेन न भवितव्यं तस्यैव सनकारस्य ग्रहणं कत्र्तव्यम्()। किमर्थं सनकारस्य ग्रहणम्()? इत्याह--"तस्य" इत्यादि। एतदपि किमर्थम्()? इत्याह--"यत्रास्य" इत्यादि। ननु च सर्वत्रैव लोपेन भवितव्यम्(), तत्? कथं नलोपस्याभावः इत्याह--"नाञ्चेः" इत्यादि। "प्राञ्चा" इति। पूर्ववत्? प्रापतिः। प्राञ्चतीति क्विन्()। "प्राचा" इति। पूर्ववल्लोपदीर्घत्वे। "क्रुञ्चा" इति। "क्रुच क्रुञ्च कौटिल्याल्पीभावयोः" [ कुत्व क्रुच्च कौटिल्याल्पीभावयोः--धा।पा।] (धा।पा।१८५,१८६), क्विन्? क्रुञ्चेति निपातनान्नलोपाभावः। "परमक्रुञ्चा" इति। समासस्वरेणान्तोदात्तत्वम्()। "परमकृता" इति। अत्रापि। "कृतिर्वा" इति। "कृती छेदने" (धा।पा।१४३५) इत्येषः॥