पूर्वम्: ६।४।५९
अनन्तरम्: ६।४।६१
 
सूत्रम्
निष्ठायां अण्यदर्थे॥ ६।४।६०
काशिका-वृत्तिः
नष्ठायाम् अण्यदर्थे ६।४।६०

ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्याम् अन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणम् इदम् देवदत्तस्य इति क्तो ऽधिकरणे च ध्रौव्यगति। प्रत्यवसानार्थेभ्यः ३।४।७६ इत्यधिकरणे क्तः। अण्यदर्थे इति किम्? अक्षितमसि मा मेक्षेष्ठाः। क्षितम् इति भावे दीर्घाभावात् क्षियो दीर्घात् ८।२।४६ इति निष्ठानत्वम् अपि न भवति।
न्यासः
निष्ठायामण्यदर्थ। , ६।४।६०

"ष्यतः कृत्यस्यार्थो भावकर्मणी" इति। तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इति वचनात्()। "ताभ्यामन्यत्र" इति। कत्र्तर्यधिकरणे च। "आक्षीणः" इति। "क्षियो दीर्घात्()" ८।२।४६ इति निष्ठानत्वम्()। "अकरमकात्? क्षियः कर्तरि क्तप्रत्ययोऽयम्()" इति। "गत्यर्थ"३।४।७२ इत्यादिना। "प्रक्षीणमिदं देवदत्तस्य" इति। "अधिकरणवाचिनश्च" २।३।६८ इति कत्र्तरि षष्ठी। "अधिकरणे" इति। क्तप्रत्ययोऽयमिति प्रकृतेन सम्बन्धः। प्रक्षीयतेस्मिन्निति प्रक्षीणम्()--अधिकरणभूतं द्रव्यमुच्यते। "क्षितमिति भावे" इति। अस्यापि पूर्ववत्सम्बन्धः। कर्मणि न प्रत्युदाहरति; क्षियोऽकर्मकत्वात्()॥
बाल-मनोरमा
निष्ठायामण्यदर्थे ८२४, ६।४।६०

निष्ठायामण्यदर्थे। ण्यदर्तो भावकर्मणी इति। "ऋहलो"रिति ण्यतः कृत्यसंज्ञकस्य "तयोरेवे"ति भावकर्मणोरेव प्रवृत्तेरिति भावः। ततोऽन्यत्रेति। कर्तरीत्यर्थः। क्तवताविति फलितम्। क्षियो दीर्घः स्यादिति। क्षिय इति पूर्वसूत्रमनुवर्तते, "युप्लुवोर्दीर्()घश्छन्दसी"त्यतो दीर्घ इति चेति भावः।

तत्त्व-बोधिनी
निष्ठायामण्यदर्थे ६७७, ६।४।६०

ण्यदर्थो भावकर्मणी इति। यद्यपि धाय्या ऋगित्यादौ कणादावपि बहुलकाण्ण्यद्भवति, तथापि "तयोरेवे"ति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः।