पूर्वम्: ६।१।१८६
अनन्तरम्: ६।१।१८८
 
सूत्रम्
लिति॥ ६।१।१८७
काशिका-वृत्तिः
लिति ६।१।१९३

लिति प्रत्ययात् पूर्वम् उदात्तं भवति। चिकीर्षकः। जिहीर्षकः। भौरिकिविधम्। भौलिकिविधम्। ऐषुकारिभक्तम्।
न्यासः
लिति। , ६।१।१८७

"लकारेत्संज्ञके" इति। लकार इत्संज्ञको यस्य स तथोक्तः। "चिकीर्षकः" इति। सन्नन्ताण्ण्वुल्()। तत्र "अतो लोपः" ६।४।४८ इत्कारलोपे कृते ण्वुलः पूर्वस्येकारस्योदात्तत्वम्()। "भौरिकविधम्()" इति "भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ" ४।२।५३ इति विधल्प्रत्ययः। भौरिकिर्विषयो देश इति "ऐषुकारिभक्तम्()" ऐषुकारिर्विषयो देश इति। पूर्वसूत्रेणैव भक्तल्प्रत्ययः॥