पूर्वम्: ६।१।१८७
अनन्तरम्: ६।१।१८९
 
सूत्रम्
आदिर्णमुल्यन्यतरस्याम्॥ ६।१।१८८
काशिका-वृत्तिः
आदिर् णमुल्यन्यतरस्याम् ६।१।१९४

णमुलि परतो ऽन्यतरस्याम् आदिरुदात्तो भवति। लोलूयं लोलूयम्, लोलूयं लोलूयम्। पोपूयं पोपूयम्, पोपूयं पोपूयम्। आम्रेडितानुदात्तत्वे कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः।
न्यासः
आदिर्णमुल्यन्यतरस्याम्?। , ६।१।१८८

लित्स्वरे प्राप्ते णमुलि परत आद्युदात्तत्वं विकल्पेन विधीयते। तेन मुक्ते पक्षे लित्स्वरोऽपि भवत्येव। अनेकाचश्च धातवो विकल्पं प्रयोजयन्तीति। ये त्वेकाचस्तेषां लित्स्वरेणानेन वा विशेषो नास्ति। "लोलुयं लोलूयम्(), "पोपूयम्पोपूयम्()" इति। यदन्ताण्णमुल्(), तस्य "आभीक्ष्णे द्वे भवतः" (वा।८८७) इति द्विर्दचनम्()। "अनुदात्तं च ८।१।३ इत्याम्रेडितस्यानुदात्तत्वम्()॥