पूर्वम्: ६।१।१८९
अनन्तरम्: ६।१।१९१
 
सूत्रम्
थलि च सेटीडन्तो वा॥ ६।१।१९०
काशिका-वृत्तिः
थलि च सेटीडन्तो वा ६।१।१९६

सेटि थलि इट् वा उदात्तो भवति अन्तो वा आदिर् वा अन्यतरस्याम्। लुलविथ, लुलविथ, लुलविथ। यदा न एते त्रयः स्वराः , तदा लिति प्रत्ययात् पूर्वम् उदात्तं भवति। तेन एते चत्वारः स्वरा पर्यायेण भवन्ति। सेटि इति किम्? ययाथ। लिति प्रत्ययात् पूर्वम् उदात्तम् इत्ययम् एव स्वरो भवति।
न्यासः
थलि च सेटीडन्तो वा। , ६।१।१९०

"अन्यतरस्याम्()" ६।१।१८८ इत्यनुवत्र्तमाने वाग्रहणं कार्यिणो विकल्पार्थम्()। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते वाग्रहणेन तु कार्यिणः। तेनेडादयः पर्यायेण कार्य प्रतिपद्यन्ते। "लुलविथ" इति। क्रादिनियमादिट्()। "ययाथ" इति। "अचस्तास्वत्थल्यनिटो नित्यम्()" ७।२।६१ इतीटो वा प्रतिषेधः॥