पूर्वम्: ६।१।१९४
अनन्तरम्: ६।१।१९६
 
सूत्रम्
क्षयो निवासे॥ ६।१।१९५
काशिका-वृत्तिः
क्षयो निवासे ६।१।२०१

क्षयशदो निवासे ऽभिधेये आद्युदात्तो भवति। क्षियन्ति निवसन्ति अस्मिनिति क्षयः। पुंसि संज्ञायां घः प्रयेण ३।३।११८ इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः। क्षये जागृहि प्रप्श्यन्। निवासे इति किम्? क्षयो वर्तते दस्यूनाम्। एरच् ३।३।५६ इत्ययम् अजन्तः।
न्यासः
क्षयो निवासे। , ६।१।१९५

"क्षयः" इति। "क्षि निवासगत्योः" (धा।पा।१४०७) इत्यस्येदं रूपमिति॥