पूर्वम्: ६।१।१९५
अनन्तरम्: ६।१।१९७
 
सूत्रम्
जयः करणम्॥ ६।१।१९६
काशिका-वृत्तिः
जयः करणम् ६।१।२०२

जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेन इति जयः। पुंसि संज्ञायां घः प्रायेण ३।३।११८ इति घः, तस्य प्रत्ययस्वरः प्राप्तः। जयो ऽश्वः। करणम् इति किम्? जयो वर्तते ब्राह्मणानाम्। अत्र अपि एरच् ३।३।५६ इत्ययम् अजन्तः।
न्यासः
जयः करणम्?। , ६।१।१९६

"जयः" इति। "जि ज्रि अभिभवे" (धा।पा।९४६,९४७) इत्यस्य जयते रूपमेतत्()। "जयो ब्राआहृणानाम्()" इति। भावे "एरच्()" ३।३।५६