पूर्वम्: ६।१।१९६
अनन्तरम्: ६।१।१९८
 
सूत्रम्
वृषादीनां च॥ ६।१।१९७
काशिका-वृत्तिः
वृषाऽदीनां च ६।१।२०३

वृषः इत्येवम् आदीनाम् आदिरुदात्तो भवति। वृषः। जनः। ज्वरः। ग्रहः। हयः। गयः। एते सर्वे पचाद्यच्प्रत्ययान्ताः। गयः इत्यत्र गायतेर् निपातनादेत्वम्। नयः। तयः। अयः। वेदः। अंशः। अशः। दवः। एते ऽपि तथा एव अच्प्रत्ययान्ताः। सूदः। इगुपधातिति कप्रत्ययान्तः। गुहा। भिदादिरङ्प्रत्ययान्तः। शमरणौ संज्ञायां सम्मतौ भावकर्मणोः। शमो भावे। रणः करमणि। अजन्तावेतौ निपातनाद् भावकर्मणोः भवतः। मन्त्रः पचाद्यजन्तः। शान्तिः इति क्तिजन्तः। कामः। यामः। घञन्तावेतौ। आरा। धारा। कारा। भिदादयः। वहः। गोचरादिषु घप्रत्ययान्तः। कल्पः। अजन्तः। पादः। घञन्तः। तत्र क्वचित् प्रत्ययस्वरः प्राप्तः, क्वचित् कर्षात्वतो घञो ऽन्त उदात्तः ६।१।१५३ इति। वृषादिराकृतिगणः। अविहितम् आद्युदात्तत्वं वृषादिषु द्रष्टव्यम्।
न्यासः
वृषादीनां च। , ६।१।१९७

"वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः" इति। "वृषु मृषु सेचने" (धा।पा।७०६,७०७) "जनी प्रादुर्भावे" (धा।पा।११४९) "ज्वर रोगे" (धा।पा।७७६) "ग्रह उपादाने" (धा।पा।१५३३) "हि गतौ" (धा।पा।१२५७) "कै गै" शब्दे" (धा।पा।९१६,९१७) "सर्वं एतेऽच्प्रतययान्ताः" इति। पचादित्वात्()। एतेन चित्स्वरे प्राप्ते पाठ एषामिति दर्शयति। "नयः, तयः, अयः, अंशः, वेदः, सूदः, अशः" इति। "णीञ्? प्रापणे" (धा।पा।९०१) "तायृ सन्तानपालनयोः" (धा।पा।४८९) क्वचित्? "तयः" इत्यस्य स्थाने "चयः" इति पठ()ते, स चिनोतेद्र्रष्टव्यः। "इण्? गतौ" (धा।पा।१०४५)। अथ वा अय वय मय चय (धा।पा।४७४)-४७८) इत्यादेः। "अंश समाधाने" (धा।पा।१९१८), "विद ज्ञाने" "(धा।पा।१०६४) "षूद रक्षणे" (धा।पा।१७१७) "अश भोजने" (धा।पा।१५२३)। "सूदः--इगुपधेति कप्रत्ययान्तः" इति। "एतेऽपि" इति यदुक्तम्(), तस्यायमपवादः। "गुह" इति। "गुहू संवरणे" (धा।पा।८९६)। "शमरणौ संज्ञायाम्()" इति। "शम्? उपशमे" (धा।पा।१२०१) "अण रण" (धा।पा।४४४,४४५) इति शब्दार्थः। संज्ञाया अन्यत्रान्तोदात्तादेव भवतः। "सम्मतौ भावकर्मणोः" इति। शमरणादिति वत्र्तते। सम्मतावर्थे विवक्षिते शमरणौ भावकर्मणोर्यथाक्रममाद्युदात्तौ भवतः। "मन्त्रः" इति। "मत्रि गुप्तभाषणे" (धा।पा।१६७९) केचित्तु--"सम्मतौ भावकर्मणोर्मणोर्मन्त्रः" इति पठन्ति। तस्य मन्त्रे विषयीभूत इत्येषोऽर्थो वेदितव्यः। "शान्तिः" इति। "शमु उपशमे" (धा।पा।१२०१) "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इति क्तिच्()। "कामः, यामः" इति। "कमु कार्तौ" (धा।पा।४४३) "यम उपरमे" (धा।पा९८४)। "घञन्तौ" इति। "कर्षात्वतो धञोऽन्त उदात्तः" (६।१।१५९) इत्येतस्मिन्? प्राप्तेऽस्य पाठः। "कल्पः" इति। "कृपू सामर्थ्ये" (धा।पा।७६२)। "पादः" इति। "पद गतौ" (धा।पा।११६९)। "वृषादिराकृतिगणः" इति। तदेव चाकृतिगणत्वं ज्ञापयितुं चकारः कृतः॥