पूर्वम्: ६।१।२०८
अनन्तरम्: ६।१।२१०
 
सूत्रम्
विभाषा वेण्विन्धानयोः॥ ६।१।२०९
काशिका-वृत्तिः
विभाषा वेण्विन्धानयोः ६।१।२१५

वेणु इन्धान इत्येतयोः विभाषा आदिरुदात्तो भवति। वेणुः, वेणुः। इन्धानः, इन्धानः, इन्धानः। वेणुशब्दो ऽयम् अजिवृरीभ्यो निच्च इति णुप्रत्ययान्तो नित्वान् नित्यम् आद्युदात्तः प्राप्तः। इन्धानशब्दो ऽपि यदा चानशन्तस् तदा चित्त्वदन्तोदात्तः। अथ शानजन्तस् तदा लसार्वधतुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवम् इन्धाने सर्वथा अप्राप्तम् उदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुः इत्युपमानं यदा संज्ञा भवति, तदा संज्ञायाम् उपमानम् ६।१।१९८ इति नित्यम् आद्युदात्तत्वम् इष्यते।
न्यासः
विभाषा वेण्विन्धानयोः। , ६।१।२०९

"णुप्रत्ययान्त" इति। तद्विधौ "स्थो णुः" (द।उ।१।१४७) इत्यतो णुग्रहणानुवृत्ते। "यदि चानशन्तः" ["यदा--काशिका] इति। "ताच्छील्यवयोवचनशक्तिषु चानश्? ३।२।१२९ इत्यनेन। "अथ शानजन्तः" इति। "लट) शतृशानचो" ३।२।१२४ इत्यादिना। "लसार्वधातुकनिघाते कृते" इति। "तास्यनुदात्तेत्()" ६।१।१८० इत्यादिना। इन्धाने" इति। अस्यानुदात्तत्वात्()। "उदात्तनिवृत्तिस्वरेण" इति। "अनुदात्तस्य च यत्रोदात्तलोपः"६।१।१५५ इत्यनेन। "वेणुः" इत्यादि। "संज्ञायामुपमानम्()" ६।१।१९८ इत्यस्यावकाशः--चञ्चा, वर्घ्रिकेति, अस्या विभाषाया अवकाशः--अनुपमानो वेणुशब्दः शुष्को वने वेणुरिति वेति, यदा वेणुरिवेत्युपमानवेणुशब्दः कस्यचित्? संज्ञा भवति तदा "संज्ञायामुपमानम्()" ६।१।१९८ इति तस्याद्युदात्तत्वमिष्यते, तच्च पूर्वविप्रतिषेधाल्लभ्यते॥