पूर्वम्: ६।१।२८
अनन्तरम्: ६।१।३०
 
सूत्रम्
लिड्यङोश्च॥ ६।१।२९
काशिका-वृत्तिः
लिड्यङोश् च ६।१।२९

विभाषा इति निवृत्तम्। प्यायः पी ६।१।२८ इत्येतत् चशब्देन अनुकृष्यते। लिटि यङि च परतः प्यायः पी इत्ययम् आदेशो भवति। आपिप्ये, आपिप्याते, आपिप्यिरे। परत्वात् पीभावे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम्, एरनेकाचः इति यणादेशः। यङि आपेपीयते, आपेपीयेते, अपेपीयन्ते।
न्यासः
लिङ्यङोश्च। , ६।१।२९

"विभाषेति निवृत्तम्()" इति। उत्तरसूत्रे पुनर्विभाषाग्रहणात्()। अन्यथापीदमेव तत्रानुवर्त्तिष्यत इति तन्न कुर्यात्()। अत एवोच्यते--द्वयोर्दिभाषयार्मध्ये ये विधयस्ते नित्या भवन्तीति। "प्यायः पीत्येतच्चशब्देनानुकृष्यते" इति। इतरथा हि सम्प्रसारणस्य प्रकृतत्वाल्लिङ्यङोः प्यायः सम्प्रसारणं विज्ञायेत। चशब्दे तु सत्यनन्तरेणैवपीभावेन सम्बन्धः सुखमवसीयते। नाप्राप्ते द्विर्वचने पीभावो विधीयते। तेन तस्य बाधकं प्राप्नोतीति कस्यचिदाशङ्का स्यात्()। अतस्तां निराकर्त्तुमाह--"परत्वात्()" इत्यादि। विरोधे हि सति बाधा स्यात्(), इह तु विरोधो नास्ति। अतः परत्वात्? पीभावे कृते पुनःप्रसङ्गवज्ञानात्? सिद्धमिति द्विर्वचनं भवतीति॥
बाल-मनोरमा
लिङ्यङोश्च १६७, ६।१।२९

लिङ्यङोश्च। लिट् च यङ् चेति द्वन्द्वात्सप्तमी। "प्यायपी"ति सूत्रमनुवर्तते। तदाह--लिटि यङि चेति। ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वे "एरनेकाच"इति यणि "पिप्ये" इति रूपमिष्यते। तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति, "विप्रतिषेधे यद्वाधितं तद्बाधितमेवे"ति न्यायादित आह-- पुनः प्रसङ्गेति। "पुनः प्रसङ्गविज्ञानात्सिद्ध"मिति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः।

तत्त्व-बोधिनी
लिङ्यङोश्च १४०, ६।१।२९

यङि --पेपीयते।