पूर्वम्: ६।१।२७
अनन्तरम्: ६।१।२९
 
सूत्रम्
प्यायः पी॥ ६।१।२८
काशिका-वृत्तिः
प्यायः पी ६।१।२८

विभाषा इत्येव। ओप्यायी वृद्धौ इत्यस्य धातोः निष्ठायां विभाषा पी इत्ययम् आदेशो भवति। पीनं मुखम्। पीनौ बाहू। पीनमुरः। इयम् अपि व्यवस्थितविभाषा एव। तेन अनुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु न एस्व भवति। आप्यानश्चन्द्रमाः। आङ्पूर्वस्यान्धूधसोः भवत्येव, आपीनो ऽन्धुः, आपीनमूधः इति।
न्यासः
प्यायः पी। , ६।१।२८

"पीनम्()" इति। "ओदितश्च" ८।२।४५ इति निष्ठानत्वम्()। "इत्यमपि" इत्यादि। अपिशब्देन न केवलं पूर्वसूत्रे या विभाषा सैव व्यवस्थितविभाषा, अपि त्वेषापीति दर्शयति। तेन किं सिद्धं भवति? इत्याह--"तेन" इत्यादि। सोपसर्गस्य तु नैव भवतीत्यस्यापवादमाह--"आङ्पूर्वस्य" इत्यादि। नित्यश्चायमन्धूधसोः पीभावः। व्यवस्थितविभाषैव॥
बाल-मनोरमा
प्यायः पी ८७९, ६।१।२८

प्यायः पी। वा स्यान्निष्ठायामिति। शेषपूरणमिदम्। "विभाषाऽभ्यवपूर्वस्ये"त्यतो विभाषेति, "स्फायः स्फी"त्यतो निष्ठायामिति चानुवर्तते इति भाव-। व्यवस्थतविभाषेति। अत्र व्याख्यानमेव शरणम्। "सोपसर्गस्य ने"त्यादि भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
प्यायः पी ७२३, ६।१।२८

पीनमिति। ओदित्त्वान्निष्ठानत्वम्। प्यान इति "()आईदितो निष्ठायाटमितीडभावे यलोपः। नत्वे व्यवस्थान्तरमाह--- सोपसर्गस्य नेत्यादि। अन्धुः- कूपः।