पूर्वम्: ६।१।३६
अनन्तरम्: ६।१।३८
 
सूत्रम्
लिटि वयो यः॥ ६।१।३७
काशिका-वृत्तिः
लिटि व्यो यः ६।१।३८

न सम्प्रसारणम् इति अनुवर्तते। लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणम् उत्तरार्थम्।
न्यासः
लिटि वयो यः। , ६।१।३७

वयेद्र्वौ यणौ, तत्र पूर्वण वकारस्य सम्प्रसारणप्रतिषेधे प्राप्ते यकारस्यानेन सम्प्रसारणं लिटि प्रतिषिद्ध्यते। तत्र प्रतिषिद्धे यकारः सम्प्रसारणभाग्न भवतीति वकारस्य सम्प्रसारणं भवति धातोरभ्यासस्य च; तत्र धातोग्र्रह्रादिसूत्रेण ६।१।१६ अभ्यासस्य "लिट()ब्यासस्योभयेषाम्()" ६।१।१७ इत्यनेन। अथ किमर्थं लिह्ग्रहणम्(), यावता वयेरादेशस्य लिटोऽन्यत्र सम्भवो नास्ति, तद्विधौ "लिट()न्यतरस्याम्()" २।४।४० इत्यतो लिङ्ग्रहणानुवृत्तेः, तत्सामथ्र्यादेव लिटि भविष्यति? इत्यत आह--"लिङ्ग्रहणमुत्तरार्थम्()" इति। "वेञः" ६।१।३९ इति प्रतिषेधो लिटि यथा स्यादित्येवमर्थं लिङ्ग्रहणम्()॥
बाल-मनोरमा
लिटि वयो यः २४४, ६।१।३७

लिटि वयो। संप्रसारणं नेति। "न संप्रसारणे संप्रसारण"मित्यतस्तदनुवृत्तेरिति भावः। तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः। तदाह--ऊयतुरिति।