पूर्वम्: ६।१।४४
अनन्तरम्: ६।१।४६
 
सूत्रम्
न व्यो लिटि॥ ६।१।४५
काशिका-वृत्तिः
न व्यो लिटि ६।१।४६

व्येञित्येतस्य धातोः लिटि परत आकारादेशो न भवति। संविव्याय। सविव्ययिथ। लिट्यभ्यासस्य उभयेषाम् ६।१।१७ इति अभ्यासस्य सम्प्रसारणम्। णलि अचो ञ्णिति ७।२।११५ इति वृद्धिः।
न्यासः
न व्यो लिटि। , ६।१।४५

"व्येञ् संवरणे" (धा।पा।१००७)। अथालिटीति कस्मान्न ज्ञायते, तुल्या हि संहिता? नैतदस्ति; यदि ह्रेवं स्यात्(), "लिटि व्यः" इति नियम एव कृतः स्यात्()--लिट()एवात्त्वम्(), नान्यत्रेति। लक्ष्यस्थित्या च विपरीतनियमो भविष्यति। द्विवचनबहुवचनयोः सम्प्रसारणे पूर्वरूपत्व आत्त्()वे च सत्यसति वा नास्ति विशेष इत्येकवचनान्तमुदाह्मतम्()। "संविव्ययिर्थः" इति। थलि वलादिलक्षणस्येटः "एकाचः" ७।२।१० इत्यादिना प्रतिषेधः। पुनरपि क्रादिनियमार्थः प्राप्तः, सोऽपि "अचस्तास्वत्? ७।२।६१ इत्यादिना प्रतिषिद्धः, पुनः "ऋतो भारद्वाजस्य" ७।२।६३ इति नियमाद्विकल्पे प्राप्ते "इडर्त्तिव्ययतीनाम्()" ७।२।६६ इति नित्यं क्रियते॥
बाल-मनोरमा
न व्यो लिटिः २४७, ६।१।४५

तत्राह-- न व्यो लिटि। "व्ये" इत्यस्य कृतात्त्वस्य षष्ठ()न्तस्य "व्य" इति निर्देशः। आत्त्वमिति। "आदेच उपदेशे" इत्यत आदित्यनुवृत्तेरिति भावः। वृद्धिरिति। णलि व्ये अ इति स्थिते "अचो ञ्णिती"ति वृद्धिरित्यर्थः। तथा च व्यै-अ इति स्थितम्। ननु तत्र द्वित्वे "लिट()भ्यासस्ये"त्यभ्यासे यकारस्य संप्रसारमे पूर्वरूपे उत्तरखण्डस्य आयादेशे "विव्याये"ति रूपं वक्ष्यति, तदयुक्तं, संप्रसारणात्प्राक् परत्वाद्धलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह-- परमपीति। उभयेषामिति। "लिट()भ्यासस्ये"ति सूत्रे "उभयेषा"मिति ग्रहणसामथ्र्यादित्यर्थः। तदेवोपपादयति--अन्यथेति। "वचिस्वपियजादीना"मित्यस्य, "ग्रहिज्यावयिव्यधिविष्टिविचतिवृश्चतिपृच्छतिभृज्जतीना"मित्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुन"र्लिट()भ्यासस्ये"त्यत्र "उभयेषां"ग्रहणं पुनर्विधानार्थम्। तथा च वच्यादीनां ग्रह्रादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लब्धम्। तत्र द्वितीयं विधानं नियमार्थम्--"उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतर"दिति। तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः। तथा च प्रकृतेऽभ्यासयकारस्य संप्रासरणे सिद्धं रूपमाह-- विव्यतुः विव्युरिति। "वचिस्वपी"ति संप्रसारणे द्वित्वे यणिति भावः। थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह--इडत्त्यर्तीति। विव्ययिथेति। अकित्त्वादभ्यासस्य संप्रसारणमिति भावः। विव्यथुः विव्य। विव्याय विव्ययेति। अकित्त्वादभ्यासस्य संप्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः। विव्यिव विव्यिम। विव्ये इति। कित्त्वात् "वचिस्वपी"ति संप्रसारणे पूर्वरूपे "वी"त्यस्य द्वित्वे यणिति भावः। विव्याते विव्यिरे। विव्यिषे विव्याथे [विव्यिढ्वे] विव्यिध्वे। विव्ये विव्यिवहे विव्यिमहे। व्यातेति। तासि एकारस्य आत्त्वम्। व्यास्यति व्यास्यते। व्ययतु व्ययताम्। अव्ययत् अव्ययत। व्ययेत् व्ययेत। वीयादिति। आशीर्लिङि सीयुटि आत्त्वम्। अव्यासीदिति। लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः। अव्यासिष्टामित्यादि। स्यत। ह्वेञ्धातुरनिट्। ञित्त्वादुभयपदी। शब्दे चेति। आकारणार्थः "आगच्छे"त्यादशब्दोऽत्र विवक्षितः। ह्वयति ह्वयते इति। शपि अयादेशः। णलादौ अकिति "लिट()भ्यासस्ये"ति अभ्यासस्यैव संप्रसारणे प्राप्ते--

तत्त्व-बोधिनी
न व्यो लिटि २१८, ६।१।४५

लिटि किम?। व्याता। व्यास्यति।