प्रथमावृत्तिः
सूत्रम्॥
अचो ञ्णिति॥ ७।२।११५
पदच्छेदः॥
अचः ६।१ ञ्णिति ७।१ वृद्धिः ? अङ्गस्य ?
समासः॥
ञश्च णश्च ञ्णौ, ञ्णौ इतौ यस्य तत्, तस्मिन् ॰ द्वन्द्वगर्भबहुव्रीहिः
अर्थः॥
अजन्तस्य अङ्गस्य वृद्धिः भवति, ञिति णिति च प्रत्यये परतः॥
उदाहरणम्॥
ञिति - एकस्तण्डुलनिचायः। द्वौ शूर्पनिष्पावौ। कारः, हारः।
णिति - गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्, यौत्रम्, च्यौत्नः॥
काशिका-वृत्तिः
अचो ञ्णिति ७।२।११५
अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर् भवति। ञिति एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः। जयतेर् यौतेश्च उणादयो बहुलम्
३।३।१ इति ष्ट्रन् प्रत्ययः। च्यवतेरपि त्नण्।
लघु-सिद्धान्त-कौमुदी
अचो ञ्णिति १८२, ७।२।११५
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
न्यासः
अचो ञ्णिति। , ७।२।११५
"निश्चायनिष्पावौ" ["एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ"--काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च "परिमाणाख्यायां सर्वेभ्यः"
३।३।२० इति धञ्()। "इदुपधस्य चाप्रत्ययस्य"
८।३।४१ इति विसर्जनीयषत्वम्()। "कारः, हारः" इति। कृञः ह्मञश्च भावे घञ्()।
"गौः, गावो गावः" इति। "गोतो णित्()"
७।१।९० इति सर्वनामस्थानस्य णित्त्वम्()। "सखायौ, सखायः" इति। अत्रापि "सख्युरसम्बुद्धौ"
७।१।९२ इति। "जयतेः, यौतेश्च" इति। "जि जये" (धा।पा।५६१), "यु मिश्रणे" ["मिश्रणेऽमिश्रणे च"--धा।पा।] (धा।पा।१०३३)। "च्यवतेः" इति।
"च्युङ छ्युङ्? ज्युङ्? प्रुङ्? प्लुङ्? गतौ"[नास्ति--धा।पा।] (धा।पा।९५५-९५८)। अज्ग्रहणमनिकोऽपि यथा स्यात्()--गोरिति।
ननु णित्करणसामथ्र्यादेव तत्र भविष्यति? नैतदस्ति;
अस्ति ह्रन्यत्? णित्करणस्य प्रयोजनम्(),
किं तत्()? गावौ, गाव इत्यवादेशे कृते "अत उपधायाः"
७।२।११६ इति वृद्धिर्यथा स्यात्()। यद्येवम्(),
गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामथ्र्यान्न भविष्यतीति। एतच्चानुत्तरम्(); "णेरनिटि" (६।४।
५१) इत्येवमादौ णित्करणस्य चरितार्थत्वात्()? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति--गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागत्र्तर्वृद्धिविषये प्रतिषेधविषये च "जाग्रोऽविचिण्णल्ङित्सु"
७।३।८५ इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्(), तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्()। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः,
न "ञ्णित्यत उपथायाः" इत्येदोच्येत? अशक्यमेवं वक्तुम्(); एवं ह्रुच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति--गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति;
अयवादेशयोर्गुणस्य च यथायोगमसम्भवात्? स्माद्यथायोगं योगविभागः कत्र्तव्यः॥
बाल-मनोरमा
अचोञ्णिति २५२, ७।२।११५
अचोञ्णिति। ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित्। "मृजेः" इत्यतो "वृद्धि"रित्यनुवर्तते। "अङ्गस्ये"त्यधिकृतमचा विशेष्यते। ततस्तदन्तविधिः। तदाह-अजन्तस्येत्यादिना। स्थानसाम्यादिकारस्य वृद्धिरैकारः। तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति। एवं-सखायः। सखायं सखायौ। सखीनिति शसि हरिवद्रूपम्। असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः। घिसंज्ञाऽभावादिति। "शेषो घ्यसखी"त्यत्र असखीति पर्युदासादिति भावः। न तत्कार्यमिति। घिप्रयुक्तकार्यं नेत्यर्थः। सख्येति। सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम्। सख्ये इति। सखि-ए इति स्थिते घित्वाऽभावात् "घेर्ङिती"ति गुणाऽभावे यणि रूपम्। ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात् "घेर्ङिती"ति गुणाऽभावे यणि सख्यस् इति स्थिते।
तत्त्व-बोधिनी
अचो ञ्णिति २१३, ७।२।११५
अचोञ्णिति। "मृजेर्वृद्धि"रित्यतो "वृद्धि"रित्यनुवर्तते, "अङ्गस्ये"ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे---अजन्ताङ्गस्येति।