पूर्वम्: ६।१।६३
अनन्तरम्: ६।१।६५
 
प्रथमावृत्तिः

सूत्रम्॥ लोपो व्योर्वलि॥ ६।१।६४

पदच्छेदः॥ लोपः १।१ ६८ व्योः ६।२ वलि ७।१

समासः॥

वश्च यश्च व्यौ, तयोः ॰ इतरेतरद्वन्द्वः।

अर्थः॥

वकार-यकारयोः लोपः भवति वलि परतः।

उदाहरणम्॥

दिव् -- दिदिवान् दिदिवांसौ दिदिवांसः। ऊयी -- ऊतम्। क्नूयी -- क्नूतम्। गौधेरः। पचेरन् यजेरन्। जीरदानुः। आस्रेमाणम्।
काशिका-वृत्तिः
लोपो व्योर् वलि ६।१।६६

धतोः इति प्रकृतं यत् तद् धात्वादेः इति पुनर् धातुग्रहणान् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति। दिव् दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी ऊतम्। क्नूयी क्नूतम्। गोधाया ढ्रक् ४।१।१२९। घौधेरः। पचेरन्। यजेरन्। वकारस्य जीवेरदानुक्, जीरदानुः। स्रिवेः आस्रेमाणम्। उणादयो बहुलम् ३।३।१ इति बहुलवचनाच् च्च्Hवोः शूडनुनासिके च ६।४।१९ इति ऊथ् न भवति। बलि इति किम्? ऊय्यते। क्नूय्यते। ऊर्वं लोपग्रहणं किम्? वेरपृक्तलोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप्कण्डूः। लोलूयतेः लोलूः। व्रश्चादीनाम् उपदेशसामर्थ्यात् वलि लोपो न भवति। वृश्चति। ववृश्च इत्यत्र अपि हि सम्प्रसारणहलादिःशेषयोर् बहिरङ्गत्वात् प्राप्नोति।
लघु-सिद्धान्त-कौमुदी
लोपो व्योर्वलि ४३१, ६।१।६४

भवेत्। भवेताम्।
न्यासः
लोपो व्योर्वलि। , ६।१।६४

"लिटि धातोः" ६।१।८ इत्यस्य धातुग्रहणस्य दृष्टानुवृत्तिसामथ्र्यादिहाप्यनुवृत्तिरिति मन्यमानस्य धातोरेवायं वलि व्यलोपो विधीयत इति कस्याचिद्भ्रान्तिः स्यात्, अतस्तं निरकर्त्तुमाह--"धातोरिति यत्? प्रकृतम्()" इत्यादि। "दिदिवान्()" इति। दिवेः क्वसौ रूपम्()। "ऊयी" इति। "ऊयी तन्तुसन्ताने (धा।पा।४८३) "क्नूयो" इति। "क्नूयी शब्दे" (धा।पा।४८५) "गौदेरः" इति। "गोधाया ढ्रक्()" ४।१।१२९ ढस्यैयादेशः, यकारलोपः। "पचेरन्()" इति। सीयुड()कारस्य लोपः। "जीवेः" इति। "जीव प्राणधारणे" (धा।पा।५६२) इत्यस्य। "रिउआवेः" इति। "रिउआवु गतिशोषणयोः" (धा।पा।११०९) इत्येतस्य। "आरुओमाणम्()" इति। औणादिकोऽयं मनिन्()। कथं पुनरेतदिहोदाहरणम्(), यावता परत्वात्? "वार्णादाङ्गं बलीयो भवति" (व्या।प।३९) इति बलीयस्त्वात्? "च्छवोः शूडनुनासिके च" (६।४।१९) इत्यादिनोठादेशेनात्र भवितव्यम्()? इत्यत आह--"उणादयो बहुलम्()" इत्यादि। बहुलग्रहणस्य सर्वविधिव्यभिचारार्थत्वान्न भवत्येष दोषप्रसङ्ग इति। पश्चाल्लोपग्रहणे क्रियमाणे पकारात्? परेणाध्यर्धमात्रोच्चारयितव्या भवति, अकगारो हि मात्रा, विसजं नीयस्त्वर्धमात्रः। पूर्वं तु लोपग्रहणे क्रियमाणे मात्राद्वयमुच्चारयितव्यं जायते; ओकारस्य द्विमात्रिकत्वात्()। तत्र लाघवार्थं पश्चादेव लोपग्रहणं कर्त्तु युक्तम्(), तत्? किं पूर्वं क्रियते? इत्यत आह--"पूर्वम्()" इत्यादि। अन्यस्तु पूर्व कार्यिनिर्देशो युक्तः, पश्चात्? कर्यनिर्देश इति पूर्व व्योग्र्रहणे कत्र्तव्ये किमर्थ लोपग्रहणं क्रियत इति पूर्वपक्षं वर्णयति, स चायुक्तः "लुगणिञोः" २।४।५८ इत्यत्र कार्यस्यापि पूर्व निदशात्()। "वेरपृक्तलोपात्()" इत्यादि। कण्डूयतेर्लोलूयतेश्च क्विपि कृते वलि लोपात्? परत्वात्? कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वं वेरपृक्तलोप एव स्यात्()। अ()स्मश्च सति निमित्ताभावात्? वर्णाश्रये प्रत्ययलक्षणाभाद्ववलि लोपो न स्यात्? तस्मात्? पूर्वं लोपग्रहणं क्रियते--वलि लोप एव पूर्वं यथा स्यात्()। पूर्वं लोपग्रहणे ह्रयमर्थः सूच्यते--वेरृक्तलोपत्? पूर्व वलि लोप एव कत्र्तव्यमिति। "कण्डूः" इति। "अतो लोपः" ६।४।४८ इत्यकारलोपः। क्विलुगुपधात्वचङ्गपरनिह्यसिकुत्वेषु न स्थानिवत्()" (१।१।५८ वा।२) इत्यकारस्य स्थानिवद्भावो न भवति वलि लोपः। अथ व्रश्चकः, व्रश्चन इत्यत्र रेफे वलि परतो वकगारलोपः कस्मान्न भवति? इत्याह--"व्रश्चादीनाम्()" इत्यादि। यद्येषामपि लोपः स्यात्(), वकारोच्चारणमनर्थकं स्यात्()। अतश्चोच्चारणसामथ्र्याद्व्रश्चादीनां वलि लोपो न भवति। स्यादेतत्()--वृश्चति, वव्रश्चेत्यत्र सम्प्रसारणे हलादिशेषे च वकारस्य श्रवणं यथा स्यात्(), तत्? कुत उपदेशस्य वैयथ्र्यम्()? अत आह--"वृश्चति" इत्यादि। यथा व्रश्चक इत्यादौ लोपस्य प्राप्तिः, एवं वृश्चतीत्यादावपि सम्प्रसारणादौ कार्ये कृतेऽपि; तस्य बहिरङ्गत्वेनासिद्धत्वात्()। तत्र सम्प्रसारणं ङित्प्रत्ययापेक्षत्वात्? बहिरङ्गम्()। हलादिशेषेऽभ्यासापेक्षत्वाद्बहिरङ्गः, वलि यलोपस्तु वर्णमात्राश्रयत्वादन्तरङ्गः। तस्मात्? सर्वत्रैव व्रश्()चेर्वकारलोपः प्राप्नोति। क्रियते चास्यो पदेशः, अत उपदेशसामथ्र्यान्न भविष्यतीति तदेवावस्थितम्()॥
बाल-मनोरमा
लोपो व्योर्वलि ८६३, ६।१।६४

लोपो व्योर्वलि। "व्" "य्" अनयोद्र्वन्द्वात् षष्ठीद्विवचनम्। तदाह--वकारयकारयोरिति। पुंवद्भाव इति। "स्त्रियाः पुंवदि"त्यनेने"ति शेषः। युवजानिरिति। जायाशब्दे यकारादाकारस्य निङ्।

तत्त्व-बोधिनी
लोपो व्योर्वलि ७५२, ६।१।६४

लोपो व्योर्वलि। "व्योर्लोप"इति वक्तव्ये "वेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन"इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः। तेन सुखीयतेः क्विपि सुखीरिति सिद्ध्म्।