पूर्वम्: ६।१।७
अनन्तरम्: ६।१।९
 
सूत्रम्
लिटि धातोरनभ्यासस्य॥ ६।१।८
काशिका-वृत्तिः
लिटि धातोरनभ्यासस्य ६।१।८

लिटि परतो ऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ। प्रोर्णुनाव। वाच्य ऊर्णोर्णुवद्भावः इति वचनादूर्णोतेः इजादेः इति आम् न भवति। लिटि इति किम्? कर्ता। हर्ता। धातोः इति किम्? ससृवांसो विशृण्विरे इम इन्द्राय सुन्विरे अनभ्यासस्य इति किम्? कृष्णो नोनाव वृषभो यदीदम् नोनूयतेर्नोनाव। समान्या मरुतः संमिमिक्षुः। लिटि उसन्तः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। यो जागार तमृचः कामयन्ते। दाति प्रियाणि इति।
लघु-सिद्धान्त-कौमुदी
लिटि धातोरनभ्यासस्य ३९६, ६।१।८

लिटि परेऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते --।
न्यासः
लिटि धातोरनभ्यासस्य। , ६।१।८

"एकाचो द्वे प्रथमस्य" ६।१।१ इति, "अजादेर्द्वितीयस्य" ६।१।२ इति चानुवत्र्तते। धातोरित्यवयवयोगा षष्ठी। सामानादिकरण्ये हि प्रथमस्य द्वितीयस्येति च सम्बन्धो नोपपद्यते। "अनभ्यासस्य" इति च प्रतिषेधाच्च। सामानाधिकरण्ये हि प्रतिषधोऽनर्थकः स्यात्(), न ह्रभ्यासवानेकाज धातुः सम्भवति। "यथायोगम्()" इति। हलादेः प्रथमस्यैकाचोऽवयवस्य, अजादेस्तु द्वितीयस्येत्येष यथायोगार्थः। "प्रोर्णनाव" इति। "ऊर्णुञ्? आच्छादने" (धा।पा।१०३९) "अजादेर्द्वितीयस्य" ६।१।२ इति नुशब्दस्य द्विर्वचनम्()। रेफस्य तु "न न्द्राः" ६।१।३ इति प्रतिषेधान्न भवति। ननु चोर्णोतेरिजादित्वात्? "इजादेश्च गुरुमतोऽनृच्छः" ३।१।३६ इत्यामि कृते "आमः" २।४।८१ इति लेर्लुक्(), "कृञ्चानुप्रयुज्यते लिटि" ३।१।४० इति कृञो लिट्()परस्यानुप्रयोगः, ततश्च प्रोर्णुवाञ्चकारेति भविष्यति, तत्कथं प्रोर्णनावेति? अत आह--"वाच्य ऊर्णोः" इत्यादि। नुवद्भावेन यथा नौतेराम्? न भवति, तथोर्णोतेरपीति दर्शयति। "विश्रृण्विरे" इति। "श्रु श्रवणे" (धा।पा।९४२) "लिटस्तझयोरेशिरैच्? ३।४।८१ इति इरेच्()। "छन्दस्युभयथा" ३।४।११७ इति लिटः सार्वधातुकत्वम्(), ततः "श्रुवः शृ च" ३।१।७४ इति श्नुः श्रृभावश्च। "हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः। "सुन्विरे" इति। "षुञ्? अभिषवे" (धा।पा।१२४७)। धातुग्रहणादिह विकरणस्य द्विर्वचनं न भवति। यतस्तत्र धातुस्तस्य विकरणेन व्यवहितत्वान्न भवतीत्येके। छन्दसत्वादित्यपरे, "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।पा।३५) इति। एतच्च "व्यवहितत्वान्नभवतीत्येके। छन्दसत्वादित्यपरे, "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।पा।३५) इति। एतच्च "व्यत्ययो बहुलम्()" ३।१।८५ इत्यस्माद्बहुलग्रहणाल्लभ्यते। एवञ्च कृत्वा "द्विर्वचनप्रकरणे छन्दसि वा" (वा। ६५६) इत्येतन्न कत्र्तव्यं भवति। "नोनाव" इति। "णु स्तोतौ" (धा।पा।१०३५), यङ्, द्विर्वचनम्(), "गुणो यङ्लुकोः ७।४।८२ इति गुणः, "नोनूय" इति गुणः, "नोनूय" इति स्थिते "यङोऽचि च" २।४।७४ इति यङो लुक्(), लिट्()। "अमन्त्रे" ३।१।३५ इति निषेधाद्न भवति। "सस्मिमिक्षुः" इति। "मिह सेचने" (धा।पा।९९२), अतः सम्पूर्वात्? सन्? "हो ढः" ८।२।३१ इति ढत्वम्(), "षढोः कः सि" ८।२।४१ इति कत्वम्(), "एकाचः" ७।२।१० इत्यादिनेट्प्रतिषेधः "हलन्ताच्च" १।२।१० इति कित्वाद्गुणः, द्विर्वचनम्(), षत्वम्(); सम्मिमिक्ष इति स्थिते लिट्(), "अमन्त्रे" ३।१।३५ इति प्रतिषेधादाम्(), न भवति। झि, तस्य उस्(), अतो लोपः" ६।४।४८। "जागार" इति। लिट्()। "दाति" इति। श्लुः। वेति वचनात्? पक्षे जजागार, ददातीत्यपि भवति॥
बाल-मनोरमा
लिटि धातोरनभ्यासस्य २६, ६।१।८

लिटि धातोः। "एकाचो द्वे प्रथमस्ये"त्यधिकृतं। धातोरित्यवयवषष्ठी। तदाह---धात्ववयवस्येति। "एकाच" इति "प्रथमस्ये"ति च धात्ववयवस्य विशेषणम्। एकोऽच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः। तथा च लिटि परेऽभ्यासभिन्नस्यैकाऽच्कस्य प्रथमस्य धात्वयवस्य द्वे उच्चारणे स्त इत्यर्थः। "एकाच"इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम्। "अजादेर्द्वितीयस्ये"त्यप्यधिकृतम्। तत्राऽच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात्पञ्चमी। तदाह-- आदिभूतादचः परस्य तु द्वितीयस्येति। "एकाच" इति शेषः। अजादिधात्ववयवस्य एकाचश्चेद्द्वित्वं तर्हि द्वितीयस्यैवैकाचो द्वित्वं नतु प्रथमस्येति यावत्। अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याह्मत्यैकाचः प्रथमस्येति कृद्योगलक्षमषष्ठी चाश्रित्य द्विः प्रयोग एवात्र विधीयते, न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम्। "आदेशप्रत्यययो"रिति सूत्रभाष्येऽपि द्विःप्रयोगपक्ष एवोक्तः। तदिह विस्तरभयान्न लिखितम्। पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम्। अजादेरिति बहुव्रीह्राश्रयणे तु इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयित#उमिच्छति इन्दिद्रीयषतीत्यादौ "न न्द्राः संयोगादय" इति दकारस्य द्वित्वनिषेधश्च स्यत्, तत्राऽजादेरित्यनुवृत्तेः। धातोरिति किम्?। तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात्। एवं सति पपाचेत्यादावेव स्यान्न तु जजागारेत्यादाविति भाष्ये स्पष्टम्। न च पपाचेत्यादौ "लिटि धातो"रिति द्वित्वे कृते "लक्ष्ये लक्षणस्ये"ति न्यायेन पुनर्द्वित्वस्याऽप्रसक्तेनरनभ्यासग्रहमं व्यर्थमिति वाच्यं, यङन्तात् "सन्यङो"रिति यङ्निमित्तकद्वित्वविशिष्टत्वात्सनि सन्निमित्तकद्वित्वनिवृत्तये, सन्नन्तात् "सन्यङो"रिति कृतद्वित्वाण्णिचि लुङि चङि कृते "चङी"ति द्वित्वनिवृत्तये चाऽनभ्यासग्रहणस्यावश्यकत्वात्। भाष्ये तु-- "कृष्णो नोनाव वृषभो यदीद"मित्यादौ नुधातोर्यङन्तात् "सन्यङो"रिति कृतद्वित्वान्नोनूयेत्यस्माल्लिटि "कास्प्रत्ययादाममन्त्रे लिटी"ति मन्त्रपर्युदासादामभावे "यस्य हल" इति यकारलोपे अतो तिपो णलि वृद्धावावादेशो नोनावेत्यत्र यङन्तात्सनि, सन्नन्ताण्णिचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम्। प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः। तत्र "भू" इति प्रथमः, "ऊ"विति द्वितीयः, "ऊ" इति व्यपदेशिवद्भावेन तृतीय एकाच्, "भू"विति समुदायस्तु चतुर्थः। तत्र समुदाये द्विरुच्यमाने सर्वेऽवयवा द्विरुच्यन्त इति "भू"विति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टं। तदाह--भूव् भूव् अ इति स्थित इति। अत्र "भू"वित्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्बोध्यम्।

तत्त्व-बोधिनी
लिटि धातोरनभ्यासस्य २२, ६।१।८

तदाह-- आदिभूतादचः परस्य त्विति॥ भूव्भूविति। यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न सङ्गच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम्। नन्विह चत्वार एकाचस्तत्रावयवास्त्रयः, तत्र भू, ऊ, ऊविति। भूविति समुदायश्चतुर्थः। तथा चाऽनियमेन यस्य कस्यचिद्द्वित्वं स्यात्। मैवम्। समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्, तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत्॥