पूर्वम्: ६।१।९३
अनन्तरम्: ६।१।९५
 
प्रथमावृत्तिः

सूत्रम्॥ अतो गुणे॥ ६।१।९४

पदच्छेदः॥ अतः ५।१ गुणे ७।१ पररूपम् १।१ ९१ अपदान्तात् ५।१ ९३ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०

अर्थः॥

अपदान्तात् अकारात् गुणे परतः पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति संहितायां विषये।

उदाहरणम्॥

पचन्ति, यजन्ति, पठन्ति, पचे, यजे॥
काशिका-वृत्तिः
अतो गुणे ६।१।९७

अपदान्तातिति वर्तते। अकारातपदन्तात् गुणे परतः पूर्वपरयोः स्थने पररूपम् एकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्ने दीर्घस्य अपवादः। पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति। अतः इति किम्? यान्ति। वान्ति। गुणे इति किम्? अपचे। अयजे। अपदान्तातित्येव, दण्डाग्रम्। युपाग्रम्।
लघु-सिद्धान्त-कौमुदी
अतो गुणे २७६, ६।१।९४

अपदान्तादतो गुणे पररूपमेकादेशः॥
न्यासः
अतो गुणे। , ६।१।९४

"पचे, यजे"- इत्यत्र "वृद्धिरेचि" ६।१।८५ इति वृद्धिः प्राप्नोति, तेन तस्या एव पररूपत्वमपबाद इत्यभिप्रायः। "आद्गुमः" ६।१।८४ इत्यत आदित्यनुवत्र्तत एवेति मन्यमान आह--"अत इति किम्()" इति। दीर्घनिवृत्यर्थ इह तपरस्याकारस्य निर्देशः क्रियत इति दर्शयितुमाह--"यान्ति, वान्ति" इति। "अपचे" इति। लङ्यात्मनेपदोत्तमपुरुषैकवचन इट्(), अतर "आद्गुणः" ६।१।८४। पररूपे तु सति स गुणो न लभ्यते॥
बाल-मनोरमा
अतो गुणे १९०, ६।१।९४

अथ राम असिति स्थिते "अकः सवर्णे दीर्घ" इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे। "एङि पररूप" मित्यतः पररूपमित्यनुवर्तते। "उस्यपदान्ता"दित्यतोऽपदान्तादित्यनुवर्तते। "एकः पूर्वपरयो"रित्यधिकृतम्। "अत" इति पञ्चमी। तदाह--अपदान्तादित्यादिना। इति प्राप्त इति। नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः। परत्वादिति। अतो गुणे" इत्यपेक्षया "प्रथमयोः पूर्वसवर्ण" इत्यस्य परत्वादित्यर्थः। ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि। अनन्तरान्। अव्यवहितानित्यर्थः। उत्तरानिति। व्यवहितानित्यर्थः। "अतो गुण" इत्युत्तरम् अव्यक्तानुकरणस्येत्यादि पठित्वा, "अकःसवर्णे दीर्घः" "प्रथमयोः पूर्वसवर्णः" इति पठितम्। ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः। वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः। नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः। भवन्तीत्यादावप्राप्ते।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम्। रुत्वविसर्गौ सिद्धवत्कृत्याह--रामा इति।