अधिकारोऽयम्, {ऋत् उत् (६।१।१०७)} इति यावत्। तत्र पर्यन्तं यद् वक्ष्यति तत्र पूर्वस्य परस्य द्वयोः अपि स्थाने एकादेशः भवति इति वेदितव्यम्॥ वक्ष्यति {आद् गुणः (६।१।८४)} इति तत्राचि पूर्वस्य अवर्णात् च द्वयोः अपि स्थाने गुनः एकः भवति।
अधिकारो ऽयम्। ख्यत्यात् परस्य
६।१।१०८ इति प्रागेतस्मात् सूत्रातिति उत्तरं यद् वक्ष्यामस् तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद् वेदितव्यम्। वक्ष्यति आद् गुणः
६।१।८४ इति। तत्र अचि पूर्वस्य अवर्णात् च परस्य स्थाने एको गुणो भवति। खट्वेन्द्रः मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवतः इति। एकग्रहणम् पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद् धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्।
अथ पूर्वपरग्रहणं किमर्थम्(), यावता "आद्गुणः"
६।१।८४ इत्यादादादित्येषा पञ्चमी अचीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; "तस्मादित्युत्तरस्य"
१।१।६६ इति वचनात्()। तथाचीत्येषा सप्तम्यादित्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति; "तस्मिन्निति निर्दिष्टे पूर्वस्य"
१।१।६५ इति वचनात्()।
तत्रान्तरेणापि पूर्वपरग्रहणं पूर्वपरयोद्र्वयोरपि भविष्यति? इत्याह--"पूर्वपरग्रहणम्()" इत्यादि।
किं पुनः कारणमसति पूर्वपरग्रहणे द्वयोरपि युगपदादेशो न सिध्यति? इत्यत आह--"एकस्यैव हि" इत्यादि। एवं मन्यते--अचत्येषा सप्तमी यणादेशादिविधौ चरितार्था; आदित्येषां तु पञ्चमी न क्वचिच्चरितार्था, अतः सा सप्तम्याः षष्ठीत्वं प्रकल्पयेत्()। तत्रासति पूर्वपरग्रहणेऽच एव स्थाने गुणः स्यत्()। "बृद्धिरेचि"
६।१।८५ इत्यत्र च गणविधावादिति पञ्चमी कृतार्थे ति तस्या एचीति सप्तम्यकृतार्था षष्ठीत्वं प्रकल्पयेत्()। एवं च वृद्धिरवर्णस्यैव प्रसज्येत। "उपसर्गादृति धातौ" (६।१।
९१) इत्यतर द्वयोरपि पञ्चमीसप्तम्योरकृतार्थत्वात्? पर्यायेण परस्परं षष्ठीपरकल्पनेति पर्यायेणैव वृद्धिः स्यात्()।
यत्? पुनः परस्याभिमतं पञ्चमी सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति, सप्तम्यपि पञ्चम्याः,
ततोऽन्तरेणापि पर्वपरग्रहणं द्व्योरप्यादेशो भविष्यतीति? तन्निरासायाह--"नोभे" इत्यादि। निवृत्तिधर्मा हि स्थानी भवति, श्रूयमाणस्य च षष्ठीप्रकल्पनं प्रति निमित्तभावः।
कथं पूर्वपरौ निवत्र्तेयाताम्()? षष्ठीप्रकल्पनं च प्रति निमित्तभावमुपगच्छेतातम्? अत एवानिवृत्तेर्निमित्तभावस्य चासम्भवान्नोभे सप्तमीपञ्चम्यौ युगयत्प्रकल्पिके भवतः। तस्मादेकस्यैव स्यात्(), नोभयोः।
अथैकग्रहणं किमर्थम्(), यावता "भ्रस्जो रोपधयो रमन्यतरस्याम्()"
६।४।४७ इत्यत्र विनाप्येकग्रहणमेक एव सम्भवति, तथाप्यत्रैकग्रहणेन विनाप्येक एव भवष्यतीत्याह--"एकम्()" इत्यादि।
रमागमेन हि मित्वात्? "मिदचोन्त्यात्परः" (१।१।
४७) इत्यचोऽन्त्यात्? परेण भवितव्यम्()।
न च द्वयो रमोर्भृज्जातवचोऽन्त्यात्? परेण सम्भवोऽस्ति। ततो युक्तं तद्विनाप्येकग्रहणम्()।
एक एव रम्? भवतीति गुणादिस्त्वादेशः। सम्भवति च स्थानिभेदे सत्येकैकस्य स्थानिनो गुणादिः पृथगादेशः तत्रासत्येकग्रहणे पृथगादेशः स्यात्()।
तस्मात्? पूर्वपरयोद्र्वयोः स्थानिनोः पृथगदेशो मा भूदित्येवमर्थमेकग्रहणम्()। असति पुनरेकग्रहम आदेशश्च द्वयं प्राप्नोतीत्यमुमर्थं सोपपत्तिकं प्रतिपादयितुमाह--"स्थानिभेदाद्धि" इत्यादि। यता "रदाभ्यां निष्ठातो नः पूर्वस्य च दः"
८।२।४२ इति स्थानिभेदाद्धेतोर्भिन्नं छिन्नमित्येवमादिषु द्वावेवादेशौ भवतः, तथा खट्वेन्द्र इत्येवमादिष्वपि द्वावादेशौ स्याताम्()॥