तस्मात् पूर्वसवर्णदीर्घातुत्तरस्य शसो ऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तृ̄न्। हर्तृ̄न्। षण्डकान्। षण्ढकान्। षण्ढकान्। स्थूरान्। अररकान् पश्य। सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति। इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचने
१।२।५ इति पुंसो ऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति।
तस्मातिति किम्? एतांश्चरतो गाः पश्य। शासः इति किम्। वृक्षाः। प्लक्षाः।
पुंसि इति किम्? धेनूः। बह्वीः। कुमरीः।
"तस्मात्? पूर्वसवर्णदीर्घात्()" इति। एतेन तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्दिष्ट इति दर्शयति। "शसोऽवयवस्य सकारस्य" इति। अनेन शस इति सकारावयवापेक्षयावयवषष्ठीति पुंसीति प्रत्ययार्थस्येदं वा विशेषणम्()--"पुंसां [पुंसि--मु। पाठः] चेद्बहुत्वे शसुत्पन्न इति।
प्रकृतिविशेषणं वा--पुंशब्दाच्चेत्? परः शसिति। तत्र यदा प्रत्ययार्थस्य विशेषमं तवा "सर्व एते" इत्यादेरयं पूर्वपक्षः--वृक्षान्(), अग्नीनित्यादिकं युक्तमुदाहरणम्(); पुसां बहुत्वेऽत्र शस उत्पन्नत्वात्()।
षण्डकान्? पण्डकानिति--एतदुदाहरणद्वयमयुक्तम्(),
न ह्रतर पुंसां बहत्वे शस्? उत्पन्नः,
किं तर्हि? नपुंसकानामित्यत आह--"सर्व एते" इत्यादि। सर्वग्रहणेन न केवलं वृक्षादयः शब्दा पुंल्लिङ्गेन सामान्यविशेषेण विशिष्टं स्वार्थं प्रतिपादयन्ति, अपि तु षण्डकपण्डकशब्दावपीति दर्शयति। स्वार्थः पनरेषा पुंस्त्वेन सामान्यविशेषेणावच्छिन्नं वृक्षादिकं द्रव्यम्()। तदेवं यतः सर्व एते पुंल्लिङ्गविशिष्टार्थाभिधायिनः,
तेनैतेभ्य उत्पद्यमानः शस्? पुंसामेव बहुत्वे उत्पद्यत इति पूर्वपक्षो निराकृतो भवति। यदा तु प्रकृतिविशेषणं तदायं पूर्वपक्षः--वृक्षानित्यादिकमित्युदाहरणमुपपद्यते,
तत्र हि पुंशब्दात्? परः शस्? भवति; स्थूरान्(), अररकानिति इदमुदाहरणद्वयं नोपपद्यते; तथा हि स्थूराया अपत्यानि अररकाया अपत्यानीति "गर्गादिभ्यो यञ्()"
४।१।१०५ इति यञ्(), "यञञोश्च" (२।४।
६४) इति लुकि कृते स्त्रीप्रत्ययस्यापि "लुक्? तद्धितलकि"
१।२।४९ इति लुक्()--स्थूर, अररक,
इत्येताभ्यां स्त्रीशब्दाभ्यामुत्पन्नोऽत्रि शस्? स्त्रीशब्दाभ्यां परो भवति,
न नपुंसकशब्दाभ्याम्()? इत्यत आह--"सर्व एते" इत्यादि। प्रकृतिरेव ह्रत्र तद्धितलुगन्ता प्रत्ययार्थे वत्र्तते, स च प्रत्ययार्थः, पुंल्लिङ्गेन विशिष्टः। तस्मान्न केवलं वृक्षादयः शब्दाः पुंल्लिङ्गेन विशिष्टं वृक्षादिकं स्वार्थं प्रतिपादयन्ति, अपि तु स्थूराररकशब्दावपीति पूर्वपक्षः प्रतिक्षिप्तो भवति।
अयं तर्हि प्रत्ययार्थविशेषणपक्षे दोषः--चञ्चेव चञ्चा पुमांस इति। "इवे प्रतिकृतौ" (५।३।
९६) कन्? "लुम्मनुष्ये"
५।३।९८ इति लुप्();
यदा लुबन्ताच्चञ्चाशब्दात्? पुसां बहुत्वे शस्? उत्पद्यते तदा चञ्चाः पश्येत्यत्र नत्वं प्राप्नोति? इत्यत आह--"इह तु" इत्यादि।
नैव ह्रत्र पुंबहुत्वे शस्? उत्पन्नः,
किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्ततद्भावेन स्त्रीत्वातिदेशात्()। ततोऽत्र नत्वं न भवति।
दीर्घग्रहणं प्रकृतम्(), तस्य चेहार्थवशेन पञ्चम्यन्तस्योपस्थाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह--"इह तु" इत्यादि।
नैव ह्रत्र पुंबहुत्वे शस्? उत्पन्नः,
किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्तवद्भावेन स्त्रीत्वातिदेशात्()। ततोऽत्र नत्वं न भवति।
दीर्घग्रहणं प्रकृतम्(), तस्य चेहार्थवशेन पञ्चम्यन्तस्योपसथाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह--"तस्मादिति किम्()" इति।
"एतान्? गाश्चरतः पश्च" इति। "औतोऽम्शसोः"
६।१।९० इत्यात्वम्()। यद्यनन्तरदीर्घप्रत्यवमर्शी तच्छब्देनोपादीयेत,
तदाऽविशेषेण दीर्घमात्रान्नत्वं विधीयमानम्()--एतान्? गाश्चरतः पश्येत्यत्रापि स्यात्(), भवति ह्रयमाकारो दीर्घः।
तस्मात्? तच्छब्दे तु न दोषः; न ह्रयमननतरसूत्रविहित आकारः॥