पूर्वम्: ६।१।९७
अनन्तरम्: ६।१।९९
 
सूत्रम्
प्रथमयोः पूर्वसवर्णः॥ ६।१।९८
काशिका-वृत्तिः
प्रथमयोः पूर्वसवर्णः ६।१।१०२

अकः इति दीर्घः इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद् द्वितीया ऽपि प्रथमा इति उक्ता। तस्यां प्रथमायां द्वितीयायां च विभक्तौ अचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घः एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्। अतो गुणे ६।१।९४ इति यदकारे पररूपं ततकः सवर्णे दीर्घत्वम् एव बाधते, न तु पूर्वसवर्नदीर्घत्वम्, पुरस्तादपवाद अनन्तरान् विधीन् बाधन्ते न उत्तरातिति। अचि इत्येव, वृक्षः। प्लक्षः। अकः इत्येव, नावौ। पूर्वसवर्नग्रहणं किम्? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम्? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
प्रथमयोः पूर्वसवर्णः १२६, ६।१।९८

अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥
न्यासः
प्रथमयोः पूर्वसवर्णः। , ६।१।९८

प्रथमशब्दोऽयं सन्निवेशविशेषापेक्षेऽभिधेये वत्र्तते। परेष्वभिसमीक्षितेषु यस्मात्पूर्वो नास्ति स प्रथमशब्दाभिधेयः। इह च "प्रथमयोः" इति सामान्येन निर्देशान्न ज्ञायते--कयोः प्रथमयोरिवं ग्रहणमित्यतस्तत्परिज्ञानायाह--"प्रथमाशब्दः" इत्यादि। प्रथमशब्दोऽयमिह शास्त्रे विभक्तिविशेष रूढः, सुपां यदाद्यं त्रिकं तत्र प्रसिद्धः। तथा हि--"सपूर्वयोः प्रथमयोर्विभाषा" ८।१।२६, "सप्तमीपञ्चमीप्रथमाभ्यः" ५।३।२७ इत्येवमादिषु निर्देशेषु प्रथमाशब्देन स एव विभक्तिविशेषो निर्दिष्टः। तस्माद्रूढिशब्दत्वादिह प्रथमाशब्दो विभक्तिविशेषे वत्र्तत इति विज्ञायते। ननु च स्त्रीलिङ्गो यः प्रथमाशब्दः स इह शास्त्रे विभक्तिविशेषे रूढः, अस्य च स्त्रीलिङ्गतैव सन्दिग्धा? नैतदस्ति; प्रथमशब्दोपादानादेव स्त्रीलिङ्गोऽयमुपात्त इत्यवसीयते। यदि हि पुंल्लिङ्गस्येदमुपादानं स्यादेयं सति प्रत्ययग्रहणेव स्यात्()। यदि च प्रत्ययग्रहणमभीष्टं स्यात्? तदौजसोरित्येवं ब्राऊयात्()। न चैवमुच्यमाने द्वितीयासम्बन्धिनोऽप्यौकारस्य ग्रहणप्रसङ्गः; इह जसा साहचर्यात्? प्रथमासम्बन्धिन एवौकारस्य ग्रहणं विज्ञास्यते। तस्मात्? स्त्रीलिङ्गस्येदं ग्रहममित्यसन्दिग्धमेतत्()। ननु च यदि प्रथमाशब्दोऽयमिह शास्त्रे विभक्तिविशेषे रूढः, एवं सति विभक्तिविशेष एक इत्येकवचनेनैव भवितव्यम्(), तत्? कथं प्रथमयोरिति द्विवचनम्()? इत्यत आह--"तत्साहचर्यात्()" इत्यादि। तेन प्रथमाख्येन विभक्तिविशेषेण साहचर्याद्()द्वितीयापि विभक्तिः प्रथमेत्युक्ता, ततश्च द्वित्वाद्()द्विवचनमेव न्याय्यम्()। तदेतेन प्रथमयोरिति विभक्त्योरिदं गरहणं न प्रतद्यययोरिति दर्शयति। "वृक्षाः "लक्षाः" इति। कथमिदमुदाह्मतम्()? यावता "अतो गुणे" (६।१।९७) इत्यनेन पररूपेणात्र भवितव्यम्? तद्धि नाप्रापते वभक्त्यन्तर आरभ्यमाणं यथाऽकः सवर्णे दीर्घत्वं बाधते, तथा "प्रथमयोः पूर्वसवर्णः" इति दीर्घत्वमपि बाधेत? इत्यत आह--"अतो गुणे" इत्यादि। अत्रैवोपपत्तिमाह--"पुरस्तात्()" इत्यादि। इतिकरणो हेतौ। यस्मात्? "पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्()" (व्या।प।९) इति तस्मात्? "अतो गुणे" (६।१।९७) पररूपम्? "अकः सवर्णे दीरघः" ६।१।९७ दीर्घत्वं बाधते; तस्यैव तदनन्तरत्वात्()। "प्रथमयोः पूर्वसवर्मः" इति दीर्घत्वं तु न बाध्यते; विपर्ययात्()। "अग्नी इत्यत्र" इत्यादि। असति पूर्वगरहणे अग्नी इतयत्र पर्वपरसमुदयः स्थानी, तस्य चान्तरतमो दीर्घ आदेशो नास्तीत्यवयवान्तरतमो यस्तेन भवितव्यम्()। अवयवौ चात्र द्वौ--पूर्वः, परश्चेति; तत्र च पूर्वस्यैव भवितव्यमिति नियमो न लभ्यते, नियमकरणाभावादिति तयोः पर्यायेण भवन्नादेशः पक्षे परसवर्णो वा स्यात्()। अतस्तन्निवृत्यर्थं पूर्वग्रहणम्()। सवर्णग्रहणं तु विप्रतिषेधनिरासार्थम्()। असति हि तस्मिन्? दीर्घ इत्यनुवत्र्तमानेऽग्नी इत्यत्र विप्रतिषिद्धित्वमापद्येत यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि च पूर्वशब्देन पूर्वाकृतिरुच्येत्(), दीर्घादनुवृत्तेः पूर्वस्येति षष्ठी वा क्रियेत। तथा च सवर्णग्रहणं शक्यमकत्र्तम्()। क्रियमाणं वा तत्? सुखप्रतिपत्यर्थ वेदितव्यम्()। "दीर्घग्रहणं त्रिमात्रे स्थानिनि" इत्यादि। अग्नि औ+इति स्थिते, असति दीर्घग्रहण एकादेशः क्रियमाणः स्थानिन आन्तरतम्यात्? त्रिमात्रः प्राप्नोति; स्थानिनस्त्रिमात्रकत्वात्()। तथा हि--अग्निशब्दस्येकार एकमात्रः औकारो द्विमात्र इत्येतत्समुदायात्मकश्चात्र स्थानी। तस्मात्? त्रिमात्रे स्थानिन्यन्तरतमस्त्रिमात्र आदेशो मा भूदित्येवमर्थं दीर्घग्रहणम्()। दीर्घग्रहणे हि सति तेनादेशे विशिष्यमाणे त्रिमात्रस्यादेशप्रसङ्गो न भवति; द्विमात्रस्यैव दीर्घसंज्ञाविधानात्()॥
बाल-मनोरमा
प्रथमयोः पूर्वसवर्णः १६३, ६।१।९८

शिव उ अच्र्य इति स्थिते-प्रथमयोः। "अकः सवर्णे" इत्यतोऽक इति, इको यणचीत्यतोऽचीति चानुवर्तते। "एकः पूर्वपरयो"रित्यधिकृतम्। प्रथमयोरित्यवयवषष्ठी। प्रथमाद्वितीये सुब्विभक्ती विवक्षिते। तदाह--अकः प्रथमेत्यादिना। इति प्राप्त इति। शिव--उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः।

तत्त्व-बोधिनी
प्रथमयोः पूर्वसवर्णः १३४, ६।१।९८

प्रथमयोः। अत्र प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौणः, द्विवचनं तु समुदाय्यपेक्षया। "इको यणची"त्यतोऽचीति "अकः सवर्णे दीर्घः" इत्यतो"ऽको दीर्घ"इति "एकः पूर्वपरयो"रिति सूत्रं चानुवर्तते इत्याशयेन व्याचष्टे--अकः प्रथमाद्वितीययोरचीत्यादिना। अचि किम्?। रामः। अकः किम्? गावौ, नावौ। प्रथमयोः किम्?। वृक्षे, प्लक्षे। यद्यपीदं "नादिची"त्यनेनैव सिध्यति, तथापि "हरी" इत्यत्रेव "हर्यो"रित्यत्रापि पूर्वसवर्णदीर्घः स्यत्। तद्वारणाय "प्रथमयो"रित्युक्तमिति दिक्। पूर्वग्र्रहणं किम्?। "अग्नी"इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम्?। त्रिमात्रे स्थानिनि त्रिमात्रो मा भूत्। "आद्गुण" इति। अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति"रिति न्यायादिति भावः। अत्र "भिद्योध्द्यौ नदे" "तौ स"दित्यादि लिङ्गम्।