पूर्वम्: ६।२।१०६
अनन्तरम्: ६।२।१०८
 
सूत्रम्
उदराश्वेषुषु क्षेपे॥ ६।२।१०७
काशिका-वृत्तिः
उदराश्वैषुषु ६।२।१०७

उदर अश्व इषु इत्येतेषु उत्तरपदेसु बहुव्रीहौ समासे संज्ञायांविषये पूर्वपदम् अन्तोदात्तं भवति। वृकोदरः। दामोदरः। हर्यश्वः। यौवनाश्वः। सुवर्णपुङ्खेषुः। महेषुः।
काशिका-वृत्तिः
क्षेपे ६।२।१०८

क्षेपे गम्यमाने उदरादिषु उत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदम् अन्तोदात्तं भवति। कुण्दोदरः। घटोदरः। कटुकाश्वः। स्पन्दिताश्वः। अनिघातेषुः। चलाचलेषुः। अनुदरः, सूदरः इत्यत्र नञ्सुभ्याम् ६।२।१७१ इत्येतद् भवति विप्रतिषेधेन।
न्यासः
उदरा�ओषुषु। , ६।२।१०७

वृकस्येवोदरमस्य "वृकोदरः"। दाम उदरे यस्येति "दामोदरः"। हरिर()आओ यस्येति "हर्य()आः"। यौवनमेव अ()आओ यस्य स "यौवना()आः"। शोभनो वर्णो येषां ते सुवर्णाः पुङ्खां येषामिषूणां ते सुवर्णपुङ्खाः, सुवर्णपुङ्खा इषवो यस्य सः "सुवर्णपुङ्खेषुः। महान्त इषवो यस्य स "महेषुः"। "आन्महतः" ६।३।४५ इत्यात्त्वम्()। अत्र पूर्वपदानाम्? "बहुव्रीहौ प्रकृत्या" ६।२।१ इति प्रकृतिभावः। यतर स्वरे प्राप्तेऽयं विधिरारब्धः स आख्यायते। "कृदाधारार्चिकलिभ्यः कः" (पं।उ।३।४०) इत्यतः "कः" इत्यानुवर्तमाने "अजिवृरीभ्यो निच्च" (पं।उ।३।३८) इत्यतो निद्ग्रहणे "सृवृभूशुषिमुषिभ्यः कक्()" (पं।उ।३।४१) इति ककपरत्ययान्तो वृकशब्दो व्युत्पाद्यते, तेनायमाद्युदात्तः। एवं दामन्शब्दोऽपि; मनिन्प्रत्ययान्तत्वात्()। ह्मञित्येतस्मात्? "सर्वधातुभ्य इन्()" (पंउ।४।११७) इति हरिशब्द आद्युदात्तः॥
न्यासः
क्षेपे। , ६।२।१०७

"कुण्डोदरः" इति। "शकिशम्योर्नित्()" (पं।उ।१।१११) इति वर्तमाने "क्वादिभ्य कित्? (पं।उ।१।११४) इत्यतः किद्ग्रहणे च "कुडि दाहे" (धा।पा।२७०) इत्येतस्मात्? "अमन्ताड्डः" (पं।उ।११३) इति डप्रत्यये कुण्डमाद्युदत्तम्()। "घटोदरः" इति। घटशब्दोऽयम्? "घट चेष्टायाम्()" (धा।पा।७६३) इत्यस्य पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। तस्मात्? पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति त्वस्यान्यार्थ आरम्भेऽपवादत्वात्? पचाद्यजन्तादनेनैवान्तोदात्तत्वं युक्तमिति मन्यमानो वृत्तिकार एतदप्युदाहरति। "कटुका()आः" इति। कटुकोऽस्वो यस्य स कटुका()आः। कटुशब्दात्? "संज्ञायां कन्()" (५।३।८७) इति कन्? ते न कटुकशब्द आद्युदात्तः। स्पान्दितोऽ()आओऽस्य "स्पन्दिता()आः"। "स्पदि किञ्चिच्चलने" (धा।पा।१४) इत्यस्मात्? क्तः। तेन स्यन्दितशब्दः प्रत्ययस्वरेणान्तोदात्तः। अनिघात इषुरस्येति "अनिघातेषुः"। निहन्यतेऽनेनेति निघातः, "हलश्च" ३।३।१२१ इति घञ्(), न निघातोऽनिघातः "तत्पुरेषे तुल्यार्थ" ६।२।२ इत्यादिनाऽव्ययप्रकृतिभावादनिघातशब्द आद्युदात्तः। चलाचल इषुरस्य "चलाचलेषुः"। "चल कम्पने" (धा।पा।८३२) तस्य पचाद्यचि "चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्य" (वा।६५८) इति द्विर्वचनम्(), अभ्यासस्यागागमश्च। एतेन चलाचलशब्दोऽन्तोदात्तः। "अनुदरः" इत्यादि। "उदरा()ओषुषु" ६।२।१०७ "क्षेषे" ६।२।१०७ इत्यस्यावकशः--कुण्डीदरः, घटोदर इति, "नञ्सुभ्याम्()" ६।२।१७१ इत्युत्तरपदान्तोदात्तस्यावकाशः--अयवः, सुयव इति; इहोभयं प्राप्नोति--अनुदरः सूदर इति। "नञ्सुभ्याम्()" ६।२।१७१ इत्येतद्भवति विप्रतिषेधेन॥