पूर्वम्: ६।२।११७
अनन्तरम्: ६।२।११९
 
सूत्रम्
आद्युदात्तं द्व्यच् छन्दसि॥ ६।२।११८
काशिका-वृत्तिः
आद्युदात्तं द्व्यच् छन्दसि ६।२।११९

यदाद्युदात्तं द्व्यचुत्तरपदं बबुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तम् एव भवति छन्दसि विसय। स्वश्वास्त्वा सुरथा मर्जयेम। नित्स्वरेण अश्वरथशब्दावाद्युदात्तौ। आद्युदात्तम् इति किम्? या सुबाहुः स्वङ्गुरिः। बाहुशब्दः प्रत्ययस्वरेण अन्तोदात्तः। द्व्यचिति किम्? सुगुरसत्। सुहिरण्यः। नञ्सुभ्याम् ६।२।१६१ इत्यस्य अयम् अपवादः।
न्यासः
आद्यदात्तं द्वयच्छन्दसि। , ६।२।११८

"नित्स्वरेणा()आरथशब्दावाद्युदात्तौ" इति। अ()आशब्दस्य "अशिपुषि" (पं।उ।१।१५१) ["अशूप्रुपि॥॥"पं।उ।] इत्यादिना क्वन्()प्रत्ययान्तस्य व्युत्पादितत्वात्()। रथशब्दस्यापि "हनिकुषिनीरमिकाशिभ्यः क्थन्()" (द।उ।६।२७) इति क्थन्()प्रत्ययान्तस्य। "बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः" इति। "कुभ्र्रश्च" (द।उ।१।१०७) इत्यतः कुरिति वर्तमाने "अर्जिदृशिकम्यमिपशिबाधामृजिपसितुग्दीर्घहकारश्च" (द।उ।१।११२) [अर्जिदृशिकम्यमिपशिबाधामृजितुग्धुग्दीर्घहकारश्च--द।उ।] इति कुप्रत्ययान्तस्य व्युत्पादितत्वात्()। "सुहिरण्यः" इति। हिरण्यशब्दः "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तः॥