पूर्वम्: ६।२।१६०
अनन्तरम्: ६।२।१६२
 
सूत्रम्
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने॥ ६।२।१६१
काशिका-वृत्तिः
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरनयोः क्रियागणने ६।२।१६२

बहुव्रीहौ समासे इदम् एतद् तदित्येतेभ्यः उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्य अनतः उदात्तः भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इदंप्रथमः। इदंद्वितीयः। इदंतृतीयः। एतत्प्रथमः। एतद्द्वितीयः। एतत्तृतीयः। तत्प्रथमः। तद्द्वितीयः। तत्तृतीयः। बहुव्रीहौ इति किम्। अनेन प्रथमः इदंप्रथमः। तृतीया इति योगविभागात् समासः। इदमेतत्तद्भ्यः इति किम्? यत्प्रथमः। प्रथमपूरणयोः इति किम्? तानि बहून्यस्य तद्बहुः। क्रियागणने इति किम्? अयं प्रथम एषां ते इदंप्रथमाः। द्रव्यगणनम् एतत्। गणने इति किम्? अयं प्रथम एषाम् ते इदंप्रथमाः। इदम्प्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वम् अन्तोदात्तं भवति। इदम्प्रथमकाः। बहुव्रीहौ इत्येतत् वनं समासे ६।२।१७७ इति प्रागेतस्मादधिकृतम् वेदितव्यम्।
न्यासः
बहुवरीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने। , ६।२।१६१

"प्रथमपूरणयोः" इति। प्रथमे स्वरूपग्रहणम्()। पूरणग्रहणे पूरणेऽर्थे ये प्रत्यया विहितास्ते गृह्रन्ते, प्रथमसाहचर्यात्()। अथ वा--पूरणग्रहणं स्वय्र्यते, स्वरितेन चाधिकारगतिर्भवति। तेन "तस्य पूरणे डट्()"५।२।४८ इत्यधिकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं भवति। "इदम्प्रथमः" इति। प्रथमोऽन्तोदात्तः। "प्रथेरमत्()" (द।उ।७।४६) इत्यमच्परत्ययान्तत्वात्()। इदमादयस्त्यदादिष्वन्तोदात्ता निपात्यन्ते; "इदन्द्वितीयः इदन्तृतीयः" इति। द्वेस्तीयः" ५।२।५३ "त्रेः सम्प्रसारणं च" ५।२।५४ इति तीयप्रत्ययान्तत्वान्मध्योदात्तौ द्वितीय तृतीयशब्दौ। "अनेन प्रथम इदं प्रथमः" इति। अत्र "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदप्रकृतिस्वर एव भवति। "यत्प्रथमः" इति। यत्? प्रथममेषामिति बहुव्रीह्रिः। अत्र "बहुव्रीहौ प्रकृत्या" ६।२।१ इति पूर्वपदप्रकृतिस्वर एव भवति। एवमुत्तरेष्वप्यस्मिन्? बहुव्रीह्रधिकारे प्रत्युदाहरणेषु वेदितव्यम्()। "इदं प्रधाना इत्यर्थः" इति। एतेनान्तरोक्ते प्रत्युदाहरणे प्रथमशब्दः प्रधानवचनः, न त्वेकसंख्यावचन इति दर्शयन्? गणानाभावं दर्शयति। "उत्तरपदस्य" इत्यादि। इह सूत्रे "प्रथमपूरणयोः" इति त्वन्यविभक्त्योरुत्तरपदनिर्देशः कृतः, न बहुव्रीहिनिर्देशः कृतः। तेनोत्तरपदस्यैव कार्यित्वम्(), न बहुव्रीहेः। ततश्च यदा कबुत्पद्यते तदा "कपि पूर्वम्()" ६।२।१७२ अन्तोदात्तं भवति। कप्प्रत्ययो हि ["कप्रत्ययो हि"--मुद्रितः पाठः] समासाधिकारे विहितत्वात्? समासस्यैवान्तौ भवति, नोत्तरपदस्य। न ह्रुत्तरपदं समासः, तेन "कबुत्तरपदक्रमेण गृह्रते" इत्युत्तरपदस्यान्तोदात्तत्वं विधीयमानं कपो न भवति, किं तर्हि? पूर्वस्य। "इदम्प्रथमकाः" इति। "शेषाद्विभाषा" ५।४।१५४ इति कप्()। "बहुव्रीहौ परकृत्या" ६।२।१ इति पूर्वपदप्रकृतिस्वरापवादौ योगः। एवमुत्तरेऽपि बहुव्रीह्रधिकारेऽस्मिन्? योगा द्रष्टव्याः॥