पूर्वम्: ६।२।१२५
अनन्तरम्: ६।२।१२७
 
सूत्रम्
चीरमुपमानम्॥ ६।२।१२६
काशिका-वृत्तिः
चीरम् उपमानम् ६।२।१२७

चीरमुत्तरपदम् उपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति। वस्त्रं चीरम् इव वस्त्रचीरम्। पटचीरम्। अम्बलचीरम्। उपमानम् इति किम्? परमचीरम्।
न्यासः
चीरमुपमानम्?। , ६।२।१२६

"सुसूदागृधिभ्यः क्रन्()" (द।उ।८।४२,पं।उ।२।२५)[सुसूदाञ्गृधिब्यः क्रन्()--द।उ।,पं।उ।] इति वर्तमाने--"शुसिचिमीनां दीर्घश्च" (द।उ।८।४३,पं।उ।२।२६) इति क्रन्प्रत्ययान्तश्चीरशब्दः, तेनाद्युदात्तः। "वस्त्रचीरम्()" इति। पूर्ववद्()व्याघ्रादित्वात्? समासः। वसेराच्छादनार्थात्? ष्ट्रन्? वस्त्रम्(), तेनाद्युदात्तम्()। "कम्बलचीरम्()" इति। "घृतादीनाञ्च" (फि।सू।१।२१) इति कम्बलशब्दोऽन्तोदात्तः॥
बाल-मनोरमा
इकोऽसवर्णे शाकल्यस्य ह्यस्वश्च ९१, ६।२।१२६

इकोऽसवर्णे। "इक" इति षष्ठी। "एङः पदान्ता"दित्यतः "पदान्ता"दित्यनुवर्तते। तच्च षष्ठ()न्ततया विपरिणम्यते। "अची"ति चानुवर्तते। ततश्च "पदान्तस्येकोऽसवर्णेऽचि परे ह्यस्वः स्या"दित्येकं वाक्यम्। चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते। ह्यस्व इति तत्रापि संबध्यते। ततश्च "उक्तो ह्यस्वः प्रकृत्या स्वभावेन अवतिष्ठत" इति वाक्यान्तरं सम्पद्यते। फलितमाह--पदान्ता इक इत्यादिना। यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्यस्वः स्यादित्येव लभ्यते। तस्य ह्यस्वस्य प्रकृतिभावो न लभ्येत। ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्यस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात्। वक्रि-अत्रेति ह्यस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात्। इष्यते तदपि। अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम्।