पूर्वम्: ६।२।१२६
अनन्तरम्: ६।२।१२८
 
सूत्रम्
पललसूपशाकं मिश्रे॥ ६।२।१२७
काशिका-वृत्तिः
पललसूपशाकं मिश्रे ६।२।१२८

पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तनि भवति। गुडपललम्। घृतपललम्। घृतसूपः। मूलकसूपः। घृतशाकम्। मुद्गशाकम्। गुडेन मिश्रं पललम् गुडपललम्। भक्षेण मिश्रीकरणम् २।१।३४ इति समासः। मिश्रे इति किम्? परमपललम्।
न्यासः
पललसूपशाकं मिश्रे। , ६।२।१२७

"पल रक्षणे" (धा।पा।८३९), [पल गतौ--धा।पा।] "कलस्तृपश्च" (द।उ।८।१०७) इति वर्तमाने "वृषादिभ्यश्चित्()" (द।उ।८।१०९) इति कलप्रत्ययस्य चित्वात्? पलशब्दोऽन्तोदात्तः। "रोदेर्णिलुक्? च" (द।उ।८।३९) इति विद्यमाने "बहुलमन्यत्रापि संज्ञाच्छन्दसोः (द।उ।८।४०) इति बहुलवचनाण्णिलुक्(), च। "पानी विषिभ्यः पः" (द।उ।७।२) इत्यधिकृत्य "स्तुवो दीर्घश्च" (द।उ।७।४) इति च "सुशृभ्यां निच्च" (द।उ।७।६) [मुशृम्यामूर्च--द।उ।] इति सूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। "इण्भीकापाशल्यतिमर्चिभ्यः कन्()" (द।उ।३।२१) इति बहुलवचनात्? "शो तनूकरणे" (धा।पा।१२७०) अस्मादिगुपधलक्षणः कः, तेन गुडशब्दोऽन्तोदात्तः। "धृ "क्षरणे" (धा।पा।१०९६) इत्यस्मात्? "अञ्चिघृसिभ्यः क्तः" (द।उ।६।९) ति क्तः, तेन घृतमन्तोदात्तम्()। "मुदिग्रोर्गग्गौ" (द।उ।३।६६) इति मुदेर्गक्? तेन मुद्गोऽन्तोदात्तः॥