पूर्वम्: ६।२।१९४
अनन्तरम्: ६।२।१९६
 
सूत्रम्
विभाषोत्पुच्छे॥ ६।२।१९५
काशिका-वृत्तिः
विभाषा उत्पुच्छे ६।२।१९६

उत्पुच्छशब्दे तत्पुरुषे विभाषा अन्त उदात्तो भवति। उत्क्रान्तः पुच्छातुत्पुच्छः, उत्पुच्छः। यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्चयतेरचुत्पुच्छः, तदा थाथादिसूत्रेण नित्यम् अन्तोदात्तत्वे प्राप्ते विकल्पो ऽयम् इति सेयम् उभयत्र विभाष भवति। तत्पुरुषे इत्येव उदस्तं पुच्छम् अस्य उत्पुच्छः।
न्यासः
विभाषोत्पुच्छे। , ६।२।१९५

"उत्पुच्छः" इति। पुच्छशब्दः "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्तः। "सेयमुभयत्र विभाषा भवति" इति। यदोत्पुच्छशब्दोऽच्प्रत्ययान्तो न भवति तदा समासान्तोदात्तत्वम्()। यदा समासान्तोदात्तत्वापवादः "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरः, तदा तेनाप्राप्तेस्मिन्नन्तोदात्तत्वे विभाषेयम्()। यदा तु पुच्छमुदस्यतीत्यस्यार्थस्य विवक्षायां "पुच्छभाण्डचीवराण्णिङ्()" ३।१।२० ति णिङं विदाय तदन्तादुत्पुच्छयतेः पचाद्यचि कृते उत्पुच्छ इत्येतच्छपब्दरूपं भवति, तदा थाथादिस्वरेण ६।२।१४३ नित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः। तेन प्राप्ते विभाषेयम्()। "उदस्तं पुच्छमस्योत्पच्छः" इति। बहुव्रीहिप्रकृतिस्वर एव भवति॥