पूर्वम्: ६।२।१४२
अनन्तरम्: ६।२।१४४
 
सूत्रम्
थाथघञ्क्ताजबित्रकाणाम्॥ ६।२।१४३
काशिका-वृत्तिः
थाथघञ्क्ताजबित्रकाणाम् ६।२।१४४

थ अथ घञ् क्त अचपित्र क इत्येवम् अन्तानाम् उत्तरपदानां गतिकारकोपपदात् परेषाम् अन्तः उदात्तो भवति। सुनीथः। अवभृथः। हनिकुषिनीरमिकाशिभ्यः क्थनिति अवे भृञः इति च क्थन्प्रत्ययान्तावेतौ। तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तम् उत्तरपदं स्यात्। अथ आवसथः उपवसथः। उपसर्गे वसेः इति अथन्प्रत्ययः घञ् प्रभेदः। काष्ठभेदः। रज्जुभेदः। क्त दूरादागतः। आतपशुष्कः। विशुष्कः। अच् प्रक्षयः। प्रजयः। क्षयो निवासे ६।१।१९५ जयः करणम् ६।१।१९६ इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् प्रलवः। प्रसवः। इत्र प्रलवित्रम्। प्रसवित्रम्। क गोवृषः। खरीवृषः। गां वर्षति, खरीं वर्षति इति मूलविभुजादित्वात् कप्रत्ययः। प्रवृषः। प्रहृषः। इगुपध इति कप्रत्ययः। वृषादीनां च ६।१।१९७ इति वृषशब्दः आद्युदात्तः। गतिकारकोपपदातित्येव, सुस्तुतं भवता। कर्मप्रवचनीये अव्ययस्वरः एव भवति।
न्यासः
थाथघञ्क्ताजबित्रकाणाम्? , ६।२।१४३

"अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्()" इति। यदीदं नारभ्येतेति भावः। "उपसर्गे वसेः इत्यथप्रत्ययः" इति। तत्र "शीङ्शपिरुगमिवञ्चि" (द।उ।६।३८) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्()। "दूरादागतः" इति। गमेः क्तः, "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपः, आगतशब्देन "स्तोकान्तिकार्थ" २।१।३८ इत्यादिना समासः, "पञ्चम्याः स्तोकादिभ्यः" ६।३।२ इत्यलुक्()। "शुष्कः" [विशुष्कः--काशिका, पदमञ्जरी च] इति। "शुषः कः" ८।२।५१ इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र "गतिरनन्तरः" ६।२।४९ इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। "आतपशुष्कम्()" [आतपशुष्कः--काशिका, पदमञ्जरी च] इति। "कर्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। अत्र "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्()। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात्? कृत्स्वरेणान्तोदात्तः। "प्रक्षयः, प्रजयः" इति। "एरच्()" (३।३।५६) ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह--"क्षयो निवासे" इत्यादि। यदा "क्षयो निवासे" ६।१।१९५ "जयः करणम्()" ६।१।१९६ इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्()। "प्रलवित्रम्(), प्रसवित्रम्()" इति। "अर्तिलूधूसूखन" ३।२।१८४ इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्()। तेनोत्तरपदं मध्योदात्तं स्यात्()। "गोवृषः" इति। "पृषु वृषु मृषु सेचने" (धा।पा।७०५,७०६,७०७), अत्र "उपपदमतिङ्()" (२।२।१९) इति समासः "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इत्युत्तरपदाद्युदात्तत्वं स्यात्()। "सुस्तुतम्()" इति। "सुः पूजायाम्()" १।४।९३, "अतिरतिक्रमणे च" १।४।९४ इति स्वती कर्मप्रवचनीयसंज्ञौ। "अत्राव्ययस्वर एव भवति" इति। "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना॥