पूर्वम्: ६।२।२७
अनन्तरम्: ६।२।२९
 
सूत्रम्
पूगेष्वन्यतरस्याम्॥ ६।२।२८
काशिका-वृत्तिः
पूगेष्वन्यतरस्याम् ६।२।२८

पूगा गणाः, तद्वाचिनि उत्तरपदे कर्मधारये समासे कुमारस्य अन्यतरस्याम् आदिरुदात्तो भवति। कुमारचातकाः, कुमारचातकाः, कुमारचातकाः। कुमारलोहध्वजाः, कुमारलोहध्वजाः, कुमारलोहध्वजाः। कुमारबलाहकाः, कुमारबलाहकाः, कुमारबलाहकाः। कुमारजीमूताः, कुमारजीमूताः, कुमारजीमूताः। चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्यो ऽग्रामणीपूर्वात् ५।३।११२ इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु तेन एव स्त्रियाम् २।४।६२ इति लुक्। अत्र यदा आद्युदात्तत्वं न भवति तदा कुमारश्च ६।२।२६ इति पूर्वपदप्रकृतिस्वरत्वम् एके कुर्वन्ति। ये तु तत्र प्रतिपदोक्तस्य ग्रहणम् इच्छन्ति तेषां समासान्तोदात्तत्वम् एव भवति।
न्यासः
पूगेष्वन्यतरस्याम्?। , ६।२।२८