पूर्वम्: ६।२।४२
अनन्तरम्: ६।२।४४
 
सूत्रम्
चतुर्थी तदर्थे॥ ६।२।४३
काशिका-वृत्तिः
चतुर्थी तदर्थे ६।२।४३

चतुर्थ्यन्तं पूर्वपदं तदर्थे उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवति। ततिति चतुर्थ्यन्तस्य अर्थः परामृश्यते। यूपदारु। कुण्डलहिरण्यम्। यूपशब्द आद्युदात्तः। कुसुयुभ्यश्च इत्यत्र नितिति वर्तते। कुन्डलशब्दो ऽपि वृषादिभ्यश्चितिति कलप्रत्ययान्तो ऽन्तोदात्तः। रथदारु। वल्लीहिरण्यम्। रथशब्द आद्युदात्तः। हनिकुषिनीरमिकाशिभ्यः क्थनित्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेण अन्तोदात्तः। तदर्थे इति किम्? कुबेरबलिः। प्रकृतिविकारभावे स्वरो ऽयम् इष्यते।
न्यासः
चतुर्थी तदर्थे। , ६।२।४३

"तदर्थे" इति। तस्मै इदम्(), चतुथ्र्यन्तम्(), तस्य योर्थस्तदर्थ इत्यर्थः। कथं पुनर्यूपशब्द आद्युदात्त? इत्याह--"कुसुयुभ्याञ्च" इत्यादि। "पानीविषिभ्यः पः" (द।उ।७।२) इत्यतः "पः" इत्यनुवत्र्तमाने "कुसुयुभ्याञ्च" (द।उ।७।५) [कुयुभ्याञ्च--मुद्रितः पाठः] इति यूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते। तत्र "सुशृ()भ्यां निच्च" (पं।उ।३।२६) इत्यतो निदिति वर्तते, तेनादयुदात्तो भवति। दीर्घत्वं तु "स्तुवो दीर्घश्च" (पं।उ।३।२५) इत्यतो दीर्घग्रहणानुवृत्तेः। "कलप्रत्ययान्तः" इति। "वृषादिभ्यश्चित्? (द।उ।८।१०९) इत्यत्र "कलस्तृपशच" (द।उ।८।१०७) इत्यतः कलप्रत्ययानुवृत्तेः। "रथशब्द आद्युदात्तः" इति। हनिकुषिनीरमिकाशिभ्यः क्थन्" (द।उ।८।१०७) इत्यतः कलप्रत्ययानुवृत्तेः। "रथशब्द आद्युदत्तः" इति। "हनिकुषिनीरमिकाशिभ्यः क्थन्()" (द।उ।८।१०७) इत्यतः कलप्रत्ययानुवृत्तेः। "रथशब्द आद्युदात्तः" इति। "हनिकुषिनीरमिकाशिभ्यः क्थन्()" (द।उ।६।२७) इति कथन्प्रत्ययान्तत्वात्()। "वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः" इति। ङीष्()प्रत्ययस्तु गौरादित्वात्()। ४।१।४१ वेदितव्यः। "प्रकृतिविकारभावे" इत्यादि। कथं पुनः सामान्येनोच्यमानः प्रकृतिविकारभावे लभ्यते? पूर्ववदन्यतरस्यांग्रहणानुवृत्तेः। तस्य च व्यवस्थितविभाषात्वाद्वक्ष्यमाणज्ञापकात्()॥