पूर्वम्: ६।२।४१
अनन्तरम्: ६।२।४३
 
सूत्रम्
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा- पारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च॥ ६।२।४२
काशिका-वृत्तिः
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च ६।२।४२

कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपापारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासाः, तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति। कुरूणां गार्हपतं कुरुगार्हपतम्। कृग्रोरुच्च इति कुरुशब्दः कुप्रत्ययान्तो ऽन्तोदात्तः। कुरुवृज्योर् गार्हपत इति वक्तव्यम्। वृजीनां गार्हपतं वृजिगार्हपतम्। वृजिशब्द आद्युदात्तः। रिक्तो गुरुः रिक्तगुरुः, रिक्तगुरुः। रिक्ते विभाषा ६।१।२०२ इति पूर्वपदम् आद्युदात्तम् अन्तोदत्तं वा। असूता जरती असूतजरती। अश्लीला दृढरूपा अश्लीलदृढरूपा। अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः। श्रीः यस्य अस्ति तत् श्लीलम्। सिध्मादेराकृतिगणत्वाल् लच्। कपिलकादित्वाच् च लत्वम्। अश्लीलदृढरूपा इति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहिता उच्यते। पारे वडवा इव पारेवडवा। निपातनादिवार्थे समासो विभक्त्यलोपश्च। पारशदो घृतादित्वादन्तोदात्तः। तैतिलानां कद्रूः तैतिलकद्रूः। तितिलिनो ऽपत्यं छात्रो वा तैतिलः इत्यणन्तः। पण्यकम्बलः। पण्यशब्दो यदन्तत्वादाद्युदात्तः। पण्यकम्बलः संज्ञायाम् इति वक्तव्यम्। अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्त्वम् एव। प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया दृत्या इत्येष विहितः स्वरितः। दास्या भारः दासीभारः। देवहूतिः। देवजूतिः। देवसूतिः। देवनीतिः। अन्तोदात्तं पूर्वपदम्। वसुनीतिः। वसुशदः आद्युदात्तः। शृ̄स्वृस्निहित्रप्यसिवसि इत्यत्र धान्ये नितिति वर्तते। ओषधिः। ओषो धीयते ऽस्याम् इति कर्मण्यधिकरणे च ३।३।९३ इति किप्रत्ययः। ओषशब्दो घञन्तत्वादाद्युदात्तः। चन्द्रमाः। चन्द्रे मो डितिति असिप्रत्ययान्तो ऽयम्। चन्द्रशब्दस् तु रक्प्रत्यान्तत्वादन्तोदात्तः। यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वम् इष्यते, न च विहितं, स सर्वो दासीभारादिसु द्रष्टव्यः।
न्यासः
कुरुगारहपतिरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च। , ६।२।४२

अत्र "कुरुगार्हपत" इत्येवमादयः पण्यकम्बलपरयन्ताः समस्ता-। तत्र कुरुगार्हपत--रिषतगुरु--इत्येतावविभक्तिकौ। इतरे तु असूतजरतीतयेवमादयः प्रथमैकवचनान्ताः। सा च प्रथमा सुबध्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। "दासीभाराणाम्()" इति बहुवचनं गणस्य सूचनार्थम्()। अत एवाह--"दासाभारादीनां च" इति। "कुरुशब्दः कुप्रत्ययान्तः" इति। "कुभ्र्रश्च" (द।उ।१।१०७) इत्यतः "कु" इत्यधिकृत्य "कृग्रोरुचच" (द।उ।१।१०९) इति कुप्रतययान्तत्वेन व्युत्पादितत्वात्()। "कुरुवृज्योर्गार्हपत इति वक्तव्यम्()" इति। कुरुवृजिशब्दयोर्गार्हपतशब्द उत्तरपदे प्रकृतिभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--कुरुशब्दस्य तावत्? "कुरुगार्हपत" ६।२।४२ इति सूतद्र एवोपादानाद्भविष्यति। वृजिशब्दस्यापि चकारस्येहानुक्तसमुच्चयार्थत्वादिति। "वृजिशब्द आद्युदात्तः" इति। वृजेरिन्()। "इगुपधात्? किच्च" (द।उ।१।४८) इत्येवं व्युत्पादितत्वात्()। "रिक्तगुरुः" इति। रिक्तगुरुशब्दस्य समानाधिकरणसमासतां दर्शयति। एवं "असूता जरती" इत्यनेनाप्यस्यासूतजरतीशब्दस्य। "अश्लौला दृढरूपा" इत्यनेनाश्लीलदृढरूपशब्दसाय। न सूतेत्यसूताशब्दोऽपि नञ्स्वरेणाद्युदात्तः। एवमश्लीलाशब्दोऽपि। न श्लीलाऽश्लीला। "सिध्मादेराकृतिगणत्वाल्लच्()" इति। "सिध्मादिभ्यश्च" ५।२।९६ इति "प्राणिस्थादातो लजन्यतरसयाम्()" ५।२।९५ इत्यतो लजितयस्यानुवृत्तेः। "कपिलकादित्वाच्च लत्वम्()" इति। "कृपो रो लः" ८।२।१८ इत्यत्र "कपिलकादीनाञ्चोपसंख्यानम्()" (वा।९१५) इति लत्वस्योपसंख्यानात्()। कथं पुनज्र्ञायते---श्रीर्यस्यास्ति तच्श्लीलशब्देनीच्यते? इत्याह--"अश्लीलदृढरूपा" इत्यादि। न श्लीलमश्लीलमिति अश्लोलशब्दस्यार्थः प्रतिषिध्यते। तत्र यदि श्लीलशब्दस्य श्रीर्यस्यास्ति स इत्यर्थो न स्यादश्लीलदृढरूपेत्यत्र निःश्रीका नोच्येत, उच्यते च, ततो ज्ञायते श्रीमदद्वस्तु श्लीलशब्देनोच्यत इति। "संख्थानमात्रेण शोभना" इति। दृढत्वाच्च संस्थानस्य। श्रीरहितत्वाच्च संस्थानमात्रेण शोभना। मात्रशब्दः श्रीमत्ताया व्यवच्छेदकः। "लावण्यरहिता" इत्यनेन निःश्रीकेत्यस्यार्थं विस्पष्टीकरोति। "पारे वडवेव पारेवडवा" इति। केन पुनरत्र समासः? न हीवार्थे समासस्य किञ्चिल्लक्षणमस्ति। अथापि कथञ्तित्? समासः स्यात्()। एवमपि "सुपो धातुप्रातिपदिकयोः" (२।४।७१) इति विभक्तिलोपः कस्मान्न भवति? इत्याह--"निपातनादेव" इत्यादि। "तितिलिनोऽपत्यम्()" इति एतेनापत्यार्थे तितिलिञ्शब्दात्? तद्धितोत्पत्तिमिह दर्शयति। "छात्त्रा वा" [छात्त्रो वा तैतिलः--काशिका] इति। तितिलन इत्यपेश्रते। एतेनापि "तस्येदम्()" ४।३।१२० इत्यर्थे तैतिला इति। पूर्ववदुपसंख्यानाट्टिलोपः। "यदन्तत्वात्()" इति। "अवद्यपण्य" ३।१।१०१ इति यदन्तस्य निपातनात्()। "आद्युदात्तः" इति। "यतोऽनावः" ६।१।२०७ इत्यनेन। "पण्यकम्बलः संज्ञायामिति वक्त्व्यम्()" ["संज्ञायां वक्तव्यम्()" इति मुद्रितः पाठः] इति। पण्यकम्बलशब्दः संज्ञायां पूर्वपदप्रकृतिसवरो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम्()--"पूगेष्वन्यतरस्याम्()" ६।२।२८ इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। संज्ञायामेव पण्यकम्बलशब्दः पूरग्वपदप्रकृतिस्वरो भवति, नान्यत्रेति। "अन्यत्र समासान्तोदात्तत्वमेव" इति। ननु च पण्यशब्दोऽयं कृत्यप्रत्ययान्तः "तत्पुरुषे" (६।२।२) इत्यादिना तवस्मिन्? पणितव्ये पूर्वपदस्य प्रकृतिसवरेणैव भवितव्यम्(), तत्? कथं समासन्तोदात्तत्वम्()? इत्याह--"प्रतिपदोक्ते हि" इत्यादि। "कुत्यतुल्याख्या अजात्या" २।१।६७ इति यः कृत्यसमासः प्रतिपदोक्तः तत्र "द्वितीयाकृत्याः" ६।२।२ इति पूर्वपदस्य प्रकृतिभावो विहितः। न चायं प्रतिपदोक्तः समासः। "विशेषणं विशेष्येण २।१।५६ इति समान्येन विहितत्वात्()। कुत एतत्()? कम्बलशब्दस्य जातिशब्दत्वात्()। "द्वितीयाकृत्या" इत्यनेन सूत्रैकदेशेन "तत्पुरुषे तुल्यार्थ" इत्यादिकं सूत्रमुपलक्षयति। "दासीभारः" इति। दासीशब्दः पूर्वमुक्तस्वर। "देवहूतिः" इति। पचाद्यजन्तत्वादन्तोदात्तः। "ओषशब्दो घञन्तत्वात्()" इति। "उष दाहे" (दा।पा।६९६) इत्यस्य घञि व्युत्पादितत्वात्()। "चन्द्रे माङो डित्()" [चन्द्रे मो डित्()--द।उ।,पं।उ।--"चन्द्रे मोऽसिः"--काशिकामुद्रितः पाठः] (द।उ।९।८८) इत्यसिपरत्ययान्तोऽयम्()। "मिथुनेऽसिः पूर्ववच्च सर्वम्()" (द।उ।९।८२) इत्यतोऽसिप्रत्ययस्यानुवृत्तेः। "चन्द्रशब्दस्तु रक्प्रतययान्तत्वात्()" इति। "स्फायितञ्चि" (द।उ।८।३१) इत्यादिना सूत्रेण रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्()। "स सर्वो दासीभारादिषु द्रष्टव्यः" इति। दासीभारादेराकृतिगणत्वात्()॥